SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ परि. १ सू...] स्याद्वादरत्नाकरसहितः हंहो सखे सौगत साधु साधु सम्बुद्धयसे किश्चन बोध्यमानः । यदत्र मुक्त्वा मतपक्षपातं प्रतीतिमार्ग समुपागतोऽसि ।। ७४ ॥ एवं हि त्वया वदता न किञ्चित् प्रतिकूलमनुशीलितमस्माकम् । यतो नैव सविकल्पप्रत्यक्षाणां नामसंश्रेयता स्वरूपमिति वयं सङ्गिरामहे । समारोपपरिपन्थिस्पष्टग्रहणस्वलक्षणत्वात्तेषाम् । न चानिश्चया- ५ स्मनः प्रामाण्यं संगच्छते । गच्छत्तृणस्पर्शादिसंवेदनस्यापि प्रमाणत्वप्रसक्तेः । निश्चयहेतुत्वान्निर्विकल्पकस्यापि प्रामाण्यमित्यप्यशिक्षितलक्षितम् । संशयादिविकल्पजनकस्यापि प्रामाण्यप्राप्तेः । स्वलक्षणानध्यवसायित्वात् संशयादिविकल्पानां न यथोक्तदोषानुषङ्ग इति यदुच्यते तदितरत्रापि तुल्यम् । न हि नीलादिविकल्पोऽपि स्वलक्षणाध्यवसायी । । तदनालम्बनस्य नै निर्विकल्पकस्याविषयीकरणाद्ध्यवसायित्वविरोधात् । तथाहि यद्यन्नालम्बतेन तत्तदध्यवस्यति यथा घटज्ञानं पटम् । नालम्बते च नीलादिविकल्पः स्वलक्षणमित्यपि । मनोराज्यादिविकल्पस्तदनालम्बनः कथं तदध्यवसायीत्यपि न वाच्यम् । मनोराज्यादिविकल्पस्यापि कथश्चित्सत्यराज्यादिगोचरत्वेन तद्ग्राहकस्वभावताभ्युपगमात् । न च १९ निर्विकल्पकस्य विकल्पोत्पादकत्वं घटते । स्वयम विकल्पत्वादर्थस्वलक्षणवत विकल्पोत्पादनसामर्थ्याविकल्पत्वयोरर्थस्वलक्षणे परस्परं विरोधस्य त्वदभिप्रायेण प्रतीतेः। अथ विकल्पवासनां सहकारिणीमपेक्ष्य निर्विकल्पकमपि प्रत्यक्षं विकल्पोत्पादनसमर्थमपि स्वीक्रियते। हन्त तर्हि तथाविधसामर्थ्यसमन्वितोऽर्थ एवास्तु किमन्तर्गडुना निर्विकल्पकेन । अथाज्ञातोऽर्थः कथं विकल्पस्य जनकोऽतिप्रसङ्गात् । ननु दर्शनमपि कथमनिश्चयात्मकं सद्विकल्पजनकमित्यपि समानम् । तस्यानुभूतिमात्रेण जनकत्वे नीलादाविव क्षणक्षयादावपि विकल्पोत्पत्तिप्रसक्तिः। यत्र दर्शनं विकल्पवासनायाः प्रबोधकं तत्रैव विकल्पजनकमित्यपि न यौक्तिकम् । तस्यानुभवमात्रेण १ संश्रयता' इति म. भ. पुस्तकयोः पाठः । २ ' तत्' इत्याधिक भ. पुस्तके । 'तदध्यवसायित्व' इति म. पुस्तके पाठः। २० "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy