________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. १ सू० ७
प्रसङ्गः । तत्रापि भिन्नसामग्रीसमुत्पाद्यत्वाविशेषात् । वासनाजन्यो हि नीलादिविकल्पञ्चक्षुरादिसामग्रीसमुत्पाद्यं पुनर्नीलादिप्रत्यक्षम् । अपि
च
विकल्पनिर्विकल्पकयोरेकत्वमध्यवस्यति किं निर्विकल्पकं चिकल्पो वा । न तावन्निर्विकल्पकं, तस्याध्यवसायशून्यत्वादितरथा भ्रान्तत्वप्रसक्तिः । नापि विकल्पस्तेन निर्विकल्पकस्याविषयीकरणात् । अन्यथा तस्य स्वलक्षणगोचरताप्रसङ्गात् ' विकल्पोऽवस्तुनिर्भासात् ' इति वचो विरुद्धयते । न चाविषयीकृतस्यान्यत्रारोपो युज्यते । नह्यन्यत्राप्रतिपन्नपञ्चाननः कापि शौर्यादिगुणग्रामभाजि पुरुषविशेषे पञ्चा -. ननत्वमध्यारोपयति । यच्चोच्यते संहृतसकलविकल्पावस्थायां रूपादि१० दर्शनं निर्विकल्पकं प्रत्यक्षतोऽनुभूयते ।
८२.
तदुक्तम् ।
' संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ १ ॥'
१५
सर्वतः सर्वस्माद्विकल्पादर्थात् । चिन्तां कल्पनाविषयिणीम् । प्रतिसंहृत्य व्यावृत्य | स्तिमितेनैकार्थाप्रसत्तया निष्प्रकम्पेन । अन्तरात्मना चित्तावस्थाविशेषेण । स्थितो युक्तः प्रमाता यच्चक्षुषा रूपमीक्षते यच्चक्षुषा करणभूतेन रूपदर्शनं सा तादृश्यक्षजा मतिः प्रत्यक्षा प्रसिद्धा ।
तथा ।
२०
' प्रत्यक्ष कल्पनापोढं प्रत्यक्षेणैव सिद्धयति । प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥ इति ॥
एतदपि प्रलापमात्रम् । तस्यामवस्थायां सन्मात्रग्राहिदर्शनसद्भावेन विशेषावभासिनो विज्ञानस्यैवाभावात् । किञ्च तुरङ्गं विकल्पयतो गोदर्शनावस्थायां त्वदभ्युपगतायां गोपिण्डसाक्षात्कारिणः प्रत्यक्षस्य निश्चयात्मकत्वमेवोपपद्यते । अनिश्चयात्मकत्वेऽप्रत्यक्षं स्वीक्रियत एव । २५ गोरित्याद्यभिधानोल्लेखी तु विकल्पः पराक्रियते ।
"Aho Shrut Gyanam"