________________
परि. १ सू. ७ स्याद्वादरत्नाकरसहितः स सम्भवत्यतिप्रसक्तेः। सादृश्यनिबन्धनश्वारोपः समुपलब्धः वस्त्ववस्तुनोश्च दृश्यविकल्प्ययोः कल्पद्रुमनभःकुसुमयोरिव सादृश्याभावान्नासावुयपन्नः। तस्मान्नैकविषयत्वमेकत्वाध्यवसायः। अन्यतरेणान्यतरस्य विषयीकरणमपि समानकालभाविनोनिर्विकल्पकसविकल्पकयोरपारतन्त्र्यादघटमानमेव । असमानकालभाविनोस्तु तयोः सुतरामन्योन्यं विषयीकरणाभावः । क्षणिकत्वेनैकस्योत्पत्तिसमयेऽपरस्यासम्भवात् । अपरत्रेतरस्याध्यारोपलक्षणोऽप्येकविषयत्वाध्यवसायोऽसम्भवी । तथाहि किं विकल्पे निर्विकल्पस्याध्यारोपो निर्विकल्पके विकल्पस्य वा । प्रथमपक्षे विकल्पव्यवहारच्छेदः समस्तज्ञानानां निर्विकल्पत्वप्रसक्तेः । द्वितीयपक्षे निर्विकल्पकबाटैच्छेदः । सकलज्ञानानां सविकल्पकत्वप्राप्तेः। अन्यच्च १० विकले निर्विकल्पकधर्मारोपाद्वैशधव्यवहारवान्निर्विकल्पके विकल्पधर्मारोपादवैशद्यव्यवहारः किं न भवेत् । अथ निर्विकल्पकधर्मेण वैशयेन विकल्पधर्मस्यावैशद्यस्याभिभूतत्वात् कथं निर्विकल्पके तस्यारोपणेनावैशअव्यवहार इत्यभिधीयते । तर्हि विकल्पधर्मेणावैशयेन निर्विकल्पकधर्मस्य वैशद्यास्याभिभूतत्वात्कथं तस्यारोपणेन विकल्पे वैशाव्यवहार इत्यपि १५ व्याक्रियताम् । भवतु वा निर्विकल्पकधर्मेणैव विकल्पधर्मस्याभिभवस्तथापि तस्य कारणं वाच्यम्। समसमयभावित्वमिति चेत्,तर्हि गोदर्शनसमये भवतामभिमते तुरङ्गमविकल्पे स्पष्टप्रतिभासो भवेत् । समसमयभावित्वविशेपात् । अथानयोभिन्नविषयत्वान्नास्पष्टप्रतिभासममिभूय तुरङ्गमविकल्पे स्पष्टतया प्रतिभासः। तर्हि शब्दस्वलक्षणं प्रत्यक्षेणानुभवता भवता तद्विषयं २० क्षणक्षयानुमानं स्पष्टमनुभूयतामभिन्नविषयत्वाविशेषान्नीलादिविकल्पवत्। अथ भिन्नसामग्रीजन्यत्वादनुमानविकल्पस्य प्रत्यक्षेणावेशद्य लक्षणस्तद्धर्मों नाभिभूयते, तर्हि सकलविकल्पानां विशदावभासिना स्वसंवेदनप्रत्यक्षेणैकसामग्रीसमुत्पाद्येनाभिभवप्रसक्तिः । अथ तत्रैकसामग्रीसमुत्पाशत्वं नेष्यते । विकल्पानां वासनासमुत्पाद्यत्वात् । स्वसंवेदनस्य तु २५ संवेदनमात्रप्रभवत्वात् । तर्हि नीलादिविकल्पस्यापि प्रत्यक्षेणाभिभवाभाव
"Aho Shrut Gyanam"