SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ स्. . बलीयस्त्वादस्येति चेत् कुतोऽस्य बलीयस्त्वम् । बहुविषयत्वान्निश्चयात्मकत्वाद्वा । प्रथमपक्षोऽनुपपन्नः, निर्विकल्पकविषय एव विकल्पस्य प्रवृत्तेः स्वीकरणात् । इतरथा ह्यगृहीतार्थग्राहित्वेन तस्य प्रमाणान्तरत्वप्रसक्तिः । द्वितीयपक्षेऽपि स्वरूपे निश्चयात्मकत्वं विकल्पत्यार्थरूपे ५ वा । न तावत् स्वरूपे, सर्वचित्तचैतानामात्मसंवेदनं प्रत्यक्षमित्यस्य विरोधात् । नाप्यर्थरूपे, विकल्पस्यैकस्यैकस्वरूपार्थरूपे अपेक्ष्य निश्चयानिश्चयस्वभावद्वयप्रसङ्गात् । तच्च स्वभावद्वयं विकल्पाद्यदि सर्वथा भिन्नम् तदा समावयादेरनङ्गीकरणात्सम्बन्धासिद्धेर्बलवान् विकल्पो निश्चयात्मकत्वादित्यस्यासिद्धिः। अथ तत्सर्वथाप्यभिन्न विकल्पात् तर्हि विकल्प एव भवेन्न स्वभावद्वयं तस्य तदन्तर्निगीर्णत्वात् । अथ कथमपि तादात्म्यान्निश्चयानिश्चयस्वरूपसाधारणमात्मानं प्रतिपद्यते विकल्पः, तर्हि स्वरूपेऽपि निश्चायकोऽसौ स्यात्, अन्यथा निश्चयस्वरूपेण तादात्म्यविरोधापत्तेः, न च स्वरूपमनिश्चिन्वन्विकल्पोऽर्थ निश्चायको युक्तोऽन्यथा ह्यगृहीतस्वरूपमपि ज्ञानमर्थग्राहकं भवेत् । १५ तथा च ' अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति' इति वचः कीर्तेः कीर्तिशेषं स्यात् । कश्चानयोरेकत्वाध्यवसायः किमेकविषयत्वमन्यतरेण वाऽन्यतरस्य विषयीकरणमपरत्रेतरस्याध्यारोपो वा । न तावदेकविषयत्वम् , सामान्यविशेषविषयत्वेनानयोभिन्नविषयत्वात् । दृश्यविकल्पयोरेकत्वाध्यवसायादभिन्नविषयत्वामित्यपि न सङ्गतम् । एकत्वाध्यवसायो हि दृश्ये विकल्प्यस्याध्यारोप उच्यते। स च गृहीतयोरगृहीतयोर्वा दृश्यश्किल्प्ययोर्भवेत् । न तावगृहीतयोः। भिन्नस्वभावतया प्रतिभासमानयोः स्तंभकुन्भयोरिवैकत्वाध्यवसायायोगात् । न च तयोर्ग्रहणं दर्शनेन । तस्य विकल्पाविषयत्वात् । नापि विकल्पेन, तस्य दृश्यागोचरत्वात् । नापि ज्ञानान्तरेणोभयोरपि ग्रहणम् । तस्यापि २५ निर्विकल्पत्वे विकल्पात्मकत्वे वा प्रोक्तदोषानतिवृत्तेः । नाप्यगृहतियोः २० १' एकस्यैव स्व'-इति भ. म. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy