________________
परि. १ सू. ७ ]
स्याद्वादरत्नाकर सहितः
I
निर्विकल्पकस्य व्यवहारं प्रत्यनुत्पन्नप्रायत्वात् । तच व्यवस्थापकं प्रत्यक्षपृष्ठभाविविकल्पयुगलकं प्रतिपत्तुः प्राक्प्रवृत्तसंकेतकावसरसमवधारितं शब्दसामान्यमनुस्मरत एव भवितुमर्हति । शब्दसामान्यस्मरणहेतुश्च वासनारूपः संस्कारः कुतः प्रबुध्यत इति अभिधातव्यम् । यदि तादृशार्थदर्शनादित्यभिधत्से । तदसत् । तदपि हि दर्शनं निर्वि- ५. कल्पकत्वेनार्थान्न विशिष्यते । ततः कथं शब्दसामान्यगोचरस्मरणहेतुभूतं संस्कारं तत्प्रबोधयेत् । अप्रबुद्धः संस्कारः कथं स्मरणमुत्पादयेत् । अनुत्पन्नं स्मरणं कथं शब्द योजयेत् । अयोजिते शब्दे कथमथ विकल्प्येत । अविकल्पितोऽर्थः कथं व्यवहारवीथीमवतरेत् । तामनवतीण नादृष्टाद्विशिष्येत तदविशिष्टश्च सुषुप्ततां जगतः सूचयतीति सर्वं त्वत्पक्षेऽपि समानम् । तस्माद्यथा स्वात्मनिश्चयाभावतः स्वयं प्रतीतमपि निर्विकल्पकज्ञानं कयाचिदचिन्त्यया शक्त्या संस्कारप्रबोधद्वारेण पश्चाद्भाविविधिप्रतिषेधविकल्पयुगलमुत्थाप्य स्वकीयव्यापारं कतिपयांशविषयमभिलापयति । तथार्थोऽपि यद्यप्रतीत एव स्वयं तथास्वभावत्वानयनादिसामग्र्यन्तः पातित्वेन संकेतकालभाविस्वाभिलापसामान्यविष- १५ यात्मसंस्कारबोधद्वारेणात्मविषयमभिलापं संसृष्टसंवेदनमाविर्भावयेत्तदा नातिमात्रमसमंजसमालोकयामः । नन्वेवं प्रत्यक्षस्य सविकल्पतां समर्थयमानैर्भवद्भिः शब्दब्रह्मवादिभिरिव शब्दसंपृक्तमेव प्रत्यक्षं समर्थितं स्यात् । मैवं वोचः - 1
१०
I
यतः
―
७७
" Aho Shrut Gyanam"
२०.
शब्दब्रह्माख्यपक्षादपि तदतितरामक्षमं क्षीणबोधै
• बौद्धैर्यत्प्रोच्यते स्म व्यवसितिरहितं सर्वथाऽध्यक्षमानम् । एतत्सन्दर्शनार्थं निबिडपरिचयः कल्पितोऽध्यक्षबोधे
तत्त्वन्यायेन नासौ भवति करणजे वेदने स्पष्टरूपे ॥ ७१ ॥ स्वत एव हि व्यवसायात्मकं प्रत्यक्षं न पुनः शब्दसम्पकीपेक्षया । तदपेक्षायां हि वर्णपदव्यवसायः कथं नाम स्यात् । तद्वयवसायेऽपि परस्य
२५