SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ७ नाम्नोऽवश्यं स्मरणेनानवस्थोपनिपातात् । नामान्तरस्मरणमन्तरेण स्वत एव वर्णपदव्यवसाये तु वस्तुव्यवसायोऽपि स्ववाचकनाभस्मरणमन्तरेण स्वत एवास्तु न कार्य शब्दसम्पर्केण एवं च शब्दसम्पर्करहितमपि विशदसंवेदनम् । यतः, सविधवर्तिनं निजांशव्यापिनं कालान्तरस्थायिनं स्थगितप्रतिक्षणपरिणाममलक्ष्यमाणपरमाणुपरिमाणं वस्त्वन्तरैः सह सदृशविसदृशाकारं कुम्भादिकं भावमवभासयतीति कृत्वा सविकल्पकमित्यभिधीयते । पराभिमतायःशलाकाकल्पक्षणक्षयिपरमाणुलक्षणग्रहणनिपुणनिर्विकल्पकप्रत्यक्षप्रतिक्षेपार्थं प्रत्यक्षस्य शब्दसम्पर्कयोग्यगोचरतासंदर्शनार्थं च । एवं चाऽध्यक्षविषयीकृते वस्तुनि व्यवहाराः संज्ञासंज्ञिसंबन्धग्रहणादयस्तत्त्ववृत्त्यैव घटन्त इति सुव्यक्तमावेदितं भवति । अन्यथा विकल्पानुत्पादेन निखिलव्यवहारविलयप्रसक्तिः । तथा हि भवदभिमतं निर्विकल्पकदर्शनं परिस्फुटप्रतिभासमपि स्मृतिहेतुभूतं संस्कारं कर्तुं न समर्थम् । तदुत्तरसमयभावि च तादृशपदार्थदर्शन प्राक्तनसंस्कारप्रबोधनं विधातुं न क्षमम् । यतः सामान्यविकल्पोत्पाद१५ द्वारेणास्वलितं निखिलो व्यवहारः प्रवर्तते । क्षणिकत्वनैरास्यादिषु सदैव निर्विकल्पप्रत्यक्षदृष्टत्वेन स्वीकृतेष्वपि पश्चाद्भाविसामान्यविकल्पोत्पत्त्या व्यवहारप्रवृत्तेरनुपलम्भात् । तस्माद्यत्र कुत्रचिदर्थांशे पाश्चात्यव्यवहारस्य प्रवृत्तिस्तत्र प्राग्भाविसंवेदनं. निश्चायकमङ्गीकर्त्तव्यम् । इतरथा क्षणिकत्वाद्यंशवन्निखिलांशेषु व्यवहारः समुच्छिद्यतेति । हे शौद्धोदनिशिभ्य सम्प्रति ततः सद्युक्तिभिः प्रोज्यताम् प्रत्यक्षं खलु निर्विकल्पकमिति त्यक्त्वा दुराशां त्वया । निःशेषव्यवहारकारणतया सर्वत्र लब्धास्पदम् विज्ञान व्यवसायसुन्दरमिदं निःसंशयं मन्यताम् ॥ ७२ ॥ किञ्च करणव्यापारानन्तरं स्वपरव्यवसायात्मनो नीलादिविकल्पस्यैव २५ वैशद्येनानुभवात्कौतस्कुती निर्विकल्पककल्पना । न चेदं वाच्यं युगप द्वत्तेराशुवृत्तेर्वा विकल्पाविकल्पयोरेकत्वाध्यवसायाद्विकल्पे वैशधप्रती "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy