SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ मिति बौदतमम्य गोne पियामानानुस्डसरासर व्य प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. . पक्षकदेशं गदितानुमानयुग्मे तदध्यक्षमपाकरोति ।। एवं च मुञ्च व्यवसायिमानं संवेदनं सर्वमिमां दुराशाम् ॥ ६९ ।। अहो महासाहसमस्य भिक्षोर्यत्स्वीयशस्त्रस्य बलं न वेत्ति ॥ स्पर्द्धानुबन्धादथ च त्वरावान् पक्षैकदेशक्षपणाय मुग्धः ॥७०॥ तथाहि । यदवादि स्वसंवेदनप्रत्यक्षेण तस्य कल्पनाशून्यस्यैवानु __भूयमानत्वादिति । तत्कोशपानप्रत्यायनीयम् । प्रत्यक्षस्य निर्विकल्पकत्व कत्व- नीलमहं विलोकयामीत्युल्लेखशेखरं व्यवसायाखण्डनम् । त्मकमेव हि प्रत्यक्षं सर्वदा सर्वत्र सधैरनुभूयते। ___ यदप्यवादि प्रत्यक्षस्य शब्दविकलनीलाद्यर्थ१० सामर्थेनात्मलाभादिति । तदपि नावदातम् । नहि निःशब्दकार्थ जनितमित्येतावतैव ध्वनि विना कृत्यमभिधातुं पार्यते । अन्यथा ह्यचेतनवस्तुसमुत्पादितमित्यचेतनमपि तद्भवेत् । ___अथ चेतनस्वरूपमनस्कारसहितादर्थात् समुत्पन्न विज्ञानमतो नाचेतनं तद्भवितुमर्हतीति प्रतिपादयेथाः । तथा सत्यभिलापसंपृक्तमनस्कार१५ व्यापारात्साभिलापमपि तल्किन्न स्यात् । यदपि स्वलक्षणनिनादयोरित्या दिना वृत्तेन तादात्म्यतदुत्पत्तिसम्बन्धनिराकरणद्वारेणार्थे प्रतिभासमाने शब्दाप्रतिभासादविकल्पकत्वं प्रत्यक्षस्य प्रत्यपादि । तदप्यसत् । तादात्म्यतदुत्पत्तिसम्बन्धविधुराणामपि परस्परं बहूनामर्थानां युगपदेकत्र ज्ञाने प्रतिभासनात् । यच्चोक्तं यदि जनकनीलाद्यर्थोपयोगेऽपीन्द्रियजं २० ज्ञानं तमर्थन परिच्छिन्द्यादित्यादि सुषुप्तप्रायं जगज्जायेतेति पर्यवसानम् । तदपि सकलमफलम् । भवत्पक्षेऽपि समानत्वात् । तथा हि स्वलक्षणगोचरे निर्विकल्पकप्रत्यक्षे समुत्पन्नेऽपि न यावद्विधिनिषेधद्वारा पश्चाद्भाविविकल्पयुग्मं समुल्लसति । न तावदिदं नालं नेदं पीतमिति इदन्तयाऽनिदन्तया वा प्रतिनियतपदार्थव्यवस्थानमास्थीयते ताथागतैः २५ 'यत्रैव जनयेदेनां तत्रैवाऽस्य प्रमाणता' इति वचनात् उत्पन्नस्यापि १ शपथेन विभावनीयम् । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy