SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७५ परि. १ सू..] स्याद्वादरत्नाकरसहितः न तत्समारोपपरिपन्थि प्रमाणं वा यथा घटः। समारोपपरिपन्थि प्रमाणं च पुनरिदं तस्माद्यवसायस्वभावमिति । अत्रानुमानयोः पक्षैकदेशे प्रत्यक्षबाधितत्वं समुद्भावयन्तः सौगताः प्रत्यवतिष्ठन्ते । तथाहि न प्रमाणत्वाभिमतज्ञानस्य बौद्धमतस्योपपादनपूवक खण्डनम् । वाम - धर्मिण: एकस्मिन् देशे प्रथमाक्षसन्निपातप्रभव- ५ संवेदनस्वरूपे कल्पनात्मक व्यवसायस्वभावत्वं सम्भवति । स्वसंवेदनप्रत्यक्षेण तस्य कल्पनाशून्यस्यैवानुभूयमानत्वात् । अथात्र विप्रतिपद्येत कश्चित् । नासौ विपश्चित् । तथाहि प्रत्यक्षस्य शब्दविकल्पनीयाद्यर्थसामर्थेनात्मलाभात्तद्रूपप्रतिभासित्वमेव न्याय्यं नाभिलापरूपप्रतिभासित्वमपि । असति चाभिलापरूपप्रतिभासित्वे कथं १० तत्र व्यवसायस्वभावत्वं सङ्गच्छते । किञ्च-~ स्वलक्षणनिनादयोन खलु विद्यते सङ्गतिः परस्परमभिन्नता न हि तयोः पृथग्दर्शनात् । समास्ति न तदुत्थताप्यपरहेतुजन्यत्वतः स्वलक्षणसमुद्भवं तदविकल्पकं वेदनम् ॥ ६७ ॥ अपि च यदि जनकनीलाद्यर्थोपयोगेऽपीन्द्रियजं ज्ञानं तमर्थ न परिच्छिन्द्यात् किन्तु विलम्बमानं तावदवतिष्ठेत यावत्स्मृतिसामर्थ्यसमुद्भूतं तदर्थप्रतिपादकशब्दसंघटनं भवतीति तर्हि त्वयैव विहितमौर्ध्वदेहिकमर्थग्रहणस्य । तथा हि नीलादिकमर्थमनिरीक्ष्यमाणस्तत्र प्रतिपन्नसमयं तद्वाचक शब्दं नानुस्मरत्युपयोगाभावात् । अननुम्मरंश्च पुर- २० श्वारिणि नीलादिवस्तुनि न तं संघटयति स्मृतिदर्पणप्रतिबिम्बनमन्तरेण तत्संघटनासामर्थ्यात् । असंघटयंश्च शब्दं त्वदाकृतेन न निरीक्ष्यत एव नीलादिकमर्थमिति सुषुप्तप्रायं जगज्जायेतेति । निर्विकल्पकमेवातः प्रत्यक्षमनुभूयते । नतु दुर्वासनाजन्यकल्पनाजालधूसरम् ॥ ६८ ॥ १ मरणानन्तरं पुत्रादिनानुष्ठीयमानः क्रियाकलापः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy