SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ७ सत् । एवं हि स्ववाचैव त्वया प्रमाणफलयोमिथ्यात्वं कथितं भवेत् । मृषा हि चिद्धर्मो बुद्धौ बुद्धिधर्मोऽपि चिता मृषेति । तस्मात् । . अलं वितथजल्पितैः श्लथय बुद्धिवृत्त्यात्मक प्रमाणमिति दर्शनं किमपि कश्मलं दूषणैः । ५. यदेव हि सुयुक्तिकं तदिह सजनः सेवते । न तु स्वपितृकुर्कुरोद्वहननीतिमालम्बते ॥ ६५ ॥ एवं च-~निनः सान्निकर्षस्तदनु सकलता कारकाणां परास्ता विख्याता यापि बुद्धेः कपिलमुनिगृहे वृत्तिरेषा निरुद्धा । १० त्यक्त्वा तत्तीथिकानां मतमखिलमपि प्रेप्सुभिायमुद्रा ___ मङ्गीकर्तव्यमेतजिनपतिगदितं ज्ञानमेव प्रमाणम् ॥६६॥६॥ . समार्थितमेवं ज्ञानमिति. विशेषणं संप्रति व्यवसायीति तद्विशेषणसमर्थनार्थमाहतद्वयवसायस्वभावं समारोपपरिपंथित्वात् प्रमाण त्वाद्वति ॥७॥ - तत्प्रमाणत्वेन सम्मतं ज्ञानम् । व्यवसायस्वभावं निश्चयात्मकमित्यर्थः । कुतः समारोपपरिपन्थित्वात् । विपर्ययसंशयानध्यवसायस्वरूपसमारोपोऽनन्तरमेव निरूपयिष्यमाणस्तत्परिपन्थित्वं तद्विरुद्धत्वं यथास्थितवस्तुग्राहकत्वमिति यावत् । तस्मात् प्रमाणत्वाद्वा हेतोस्तद्वयवसायस्वभावम् । वाशब्दो विकल्पार्थस्तन प्रत्येकमेवामू हेतू प्रमाणत्वाभिमतज्ञानस्य व्यवसायस्वभावत्वसिद्धौ समर्थावित्यर्थः सिद्धो भवति । प्रयोगौ पुनरेवं विरचनीयौ । प्रमाणत्वाभिमतं ज्ञानं व्यवसायस्वभावं समारोपपरिपन्थित्वात् प्रमाणत्वाद्वा । यत्पुनर्व्यवसायस्वभावं न भवति १ पृथ्वीछन्दः । २ मम पिता श्वानं शिरसोद्वहत्यतो मयापि तदुद्वहनं क्रियत इति । केन चित्पुत्रेण कथ्यते तद्युक्त्यसहत्वादसंगतम् । यतो न केवलं पितृकृतमनुष्ठातव्यं किंतु युक्तियुकं तत् । ३ 'मन्दाक्रान्ता' ४ 'नाय' इति म. पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy