SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. ६] स्याद्वादरत्नाकरसहितः ७३ मिन्द्रियाणामवगम्यते । तदन्यथानुपपन्नस्य लिङ्गस्यासम्भवात् । न च प्रतिनियतपदार्थपरिच्छित्तिरेव लिङ्गमिति निगदितव्यम् । तस्याः श्रवणादीन्द्रियाणां विषयाकारपरिणतिमन्तरेणापि स्वयोग्यतामाहात्म्यादुपपद्यमानत्वात् । किञ्च हृषीकाणां वृत्तिरभिन्ना भिन्ना वा तेभ्यो भवेत् । यद्यभिन्ना, तर्हि सा श्रवणादि- ५ मात्रमेव तच्च स्वापदशायामपि समस्तीति जाग्रदशावत्तत्रापि परिच्छेदः प्रसज्यते । अथ भिन्ना, किमियं तत्र सम्बद्धा भवेदसम्बद्धा वा । असम्बद्धा चेत्, तदा कथं श्रवणादेरिन्द्रियस्य वृत्तिरिति व्यपदेशं समभुवीत । सम्बद्धा चेत्तदप्यसम्बद्धम् । पंचविंशतितत्त्वातिरिक्तस्य समवायादेः सम्बन्धस्य कस्यचित्कापिलरप्रतिज्ञानात् । तस्मादित्थमि- १० न्द्रियवृत्तेर्विचार्यमाणायास्सत्त्वासम्भवात्कथं विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिरिति सुघटं स्यात् । तस्माद्बाह्यार्थालम्बनैव मनोवृत्तिरपि युक्ता । न चैवं बाह्येन्द्रियकल्पनानर्थक्यप्रसक्तिः । मनसो बाह्येन्द्रियसव्यपेक्षस्यैव बहिरर्थे प्रवृत्तिप्रतीतेः विज्ञानोत्पत्ताविन्द्रियमनसामन्योन्यं सहकारित्वात् । न खलु बाह्येन्द्रियनिरपेक्षा मनसो वि- १५ ज्ञानोत्पत्तौ प्रवृत्तिः सम्भवति । श्रवणादीन्द्रियेणाप्रतिपन्नेऽपि निस्वनादौ वस्तुनि मनसः सकाशाद्विज्ञानोत्पत्तिप्रसक्तेः । नापि मनोऽनपेक्षा बाह्येन्द्रियाणां विज्ञानोत्पत्तौ प्रवृत्तिः । अन्यत्र गतचित्तस्यापि बाह्येन्द्रियेभ्यो विज्ञानोत्पत्तिप्रसक्तेः । एवं च मनोवृत्त्यालम्बना अहंकारवृत्तिरित्यादिपरपरिकल्पितप्रक्रियानुपपत्तेर्न बुद्धिवृत्तिः कापि २० घटते यतः प्रमाणं स्यात् । अपि च यो जानाति न तस्यार्थदर्शनं फलमचेतनत्वान्महतः । यस्य वार्थदर्शनं न स जानातीति भिन्नाधिकरणत्वं प्रमाणफलयोः । ज्ञानधर्मयोगः प्रमाणं पुंसि न विद्यते तत्फलं त्वर्थदर्शनं बुद्धौ नास्तीति । अंथोच्यते स्वच्छत्वात्पुंसो बुद्धिवृत्त्यनुपातितास्ति यद्वा चेतनाकारसंस्पर्श इव बुद्धेलक्ष्यत इति तद- २५ १'अत्रोच्यते' इति प.पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy