________________
७२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ६ साकल्यं सन्निकर्ष यदिह दलितवास्तत्प्रियं नः सुदूरम्
दूरेणैषा तथापि व्रजतु तव मतिर्ज्ञानमेव प्रमाणम् । एषा वस्तूपलब्धौ करणमिति हठान्मानतामुद्वहन्ती
यस्माज्जागर्ति नित्यं कपिलमुनिमते वल्लभा बुद्धिवृत्तिः।।६३।। तथाहि विषयाकारपरिणतेन्द्रियादिवृत्त्यनुपातिनी बुद्धिवृत्तिरेखें
. पुरुषमुपरञ्जयन्ती प्रमाणम् । इन्द्रियाणां हि वृत्तिइन्द्रियमनोऽहकारबुद्धि
म. विषयाकारपरिणतिरुच्यते । नहि प्रतिनियतणोपवर्ण्य खण्डितम् । शब्दाद्याकारपरिणतिमन्तरेणेन्द्रियाणां प्रतिनियतशब्दाद्यालोचनं घटते । तस्माद्विषयसम्पत्प्रिथममिन्द्रियाणां १० विषयरूपतापत्तिरिन्द्रियवृत्तिः। तदनु विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना
मनोवृत्तिः । मनोवृत्त्यालम्बनाहंकारवृत्तिः । अहंकारवृत्त्यालम्बना च बुद्धिवृत्तिः ।सा पुनः पुरुषमुपरञ्जयति । तदुपरक्तो हि पुरुषः प्रतिनियतविषयद्रष्टा सम्पद्यते । तथा चाभिहितम्, 'इद्रियाण्यर्थमालोचयन्ति ।
इद्रियालोचितमर्थं मनः सङ्कल्पयति । मनःसङ्कल्पितमर्थमहंकारोऽ१५ भिमन्यते । अहंकाराभिमतमर्थ बुद्धिरध्यवस्यति । बुद्धयध्यव
सितमर्थ पुरुषश्वेतयते' इति । एवं व्याख्यातं पारमैः प्रमाणं श्रद्धाप्राधान्याद् बुद्धिवृत्तिस्वरूपम् ॥ कोऽपि स्याद्वादस्वादनस्मेरवक्रः सम्प्रत्येतस्य क्षोदकेलिं करोति ॥६॥
तथाहि यदुक्तं विषयाकारपरिणतेन्द्रियादिवृत्त्यनुपातिनीत्यादि । २० तत्रेन्द्रियाणां वृत्तिस्तावद्विषयाकारपरिणतिरूपा विषयाकारधारित्वमेवो
च्यते । तत्पुनरनुपपन्नम् । प्रतीतिप्रतिहतत्वात् । नहि स्फटिकमुकुरादिकमिव तदाकारधारित्वेन श्रवणादिकमिन्द्रियं प्रत्यक्षतः प्रतीयते । तद्वत्तत्रापि विपत्तिपत्तिविरहप्रसक्तेः । न खलु प्रत्यक्षपरिच्छिन्ने वस्तुनि कश्चिदबालिशः कलहायते । नाप्यनुमानाद्विषयाकारधारित्व
१' वृत्तिरेनं ' इति म.भ. पुस्तकयोः पाठः । २ कापिलैः ।
"Aho Shrut Gyanam"