________________
परि. १.सू. ६ ] स्याद्वादरत्नाकरसहितः विशेष्यभावाद्धि क्वचिद्विशेषणत्वसिद्धौ तस्यापि विशेषणविशेष्यभावस्य स्वाश्रयविशेष्यायिणः कुतस्तद्विशेषणविशेष्यत्वम् । परस्माद्विशेषणविशेष्यभावादिति चेत्,तस्यापि स्वविशेष्यविशेषणत्वं परस्माद्विशेषणविशेष्यभावादित्यनवस्थानादप्रतिपत्तिः । विशेष्यस्य विशेषणप्रत्तिपत्तिमन्तरेण तदनिष्टेः । 'नागृहीतविशेषणा. विशेष्ये बुद्धिः' इति ५ बचनात्, अतिदूरमपि गत्वा विशेषणविशेष्यभावस्यापरविशेषणविशेष्यभावाभावेऽपि स्वाश्रयविशेषणत्वोपगमे साकल्यादेरपि कचिद्विशेषणत्वं तदभावेऽपि किं न स्यादिति न विशेषणविशेष्यभावसिद्धिः । तथा च तेनापि न सम्बद्धं साकल्यं सकलेषु । अस्तु वा केनचित्सम्बन्धेन सम्बद्धं तत्तेषु । तथापि युगपत्सकलेषु सम्बध्यते क्रमेण वा । यदि १० युगपत् किमकं सदनेकं वा । एकं चेत् तर्हि तस्य सामान्यादिस्वभावताप्रसक्तिः । न च सैवास्त्विति वक्तव्यम् । सामान्यादेनित्यतया नित्यमर्थप्रमितिरूपफलोत्पत्तिप्रसक्तेः । वक्ष्यमाणसामान्यादिदूषणदुष्टत्वाच्च । अथानेकं सागपत्साकल्यं सकलेषु सम्बध्यते तर्हि यावन्ति कारकाणि तावन्ति साकल्यानि स्युः। एवं च भवतां कृतान्तप्रकोपः। १५ एकस्यैव साकल्यस्य स्वीकरणात् । अथ क्रमेण तत्तेषु सम्बध्यते तर्हि सकलकारकधर्मता साकल्यस्य न स्यात् । यदा हि तस्यैकेन सम्बन्धसकलाकारधर्मता साकल्यस्य न स्यात् । यदा हि तस्यैकेन सम्बन्धस्तदैव नापरेणेति । यदप्यभिदधे शब्दलिङ्गादेः समस्तजनस्वीकृताज्ञानस्वरूपस्याप्रमाणत्वप्रसङ्ग इति । तदपि न पीडाकरम् । शब्द- २० लिङ्गादेरज्ञानस्वभावस्यास्माकमप्रमाणत्वेनाभीप्सितत्वात् । उपचारादेव तस्य प्रामाण्यप्रतिपादनादिति । एवं च । समग्रता याऽपि च कारकाणां नैयायिकैर्व्याक्रियते स्म नव्यैः।। नैषोपचारं परिमुच्य जातु प्रमाणतां स्वीकुरुते वराकी ॥ ६२ ॥
कापिलः पुनः प्राहुः । 1विशेषणत्वम् ' इति प. म. पुस्तकयोः पाठः । २ कृतान्त:-सिद्धान्तः ।।
"Aho Shrut Gyanam"