SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७० प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ६ योगात् । द्वितीयपक्षोऽपि परीक्षा न क्षमते । क्षपाकरभास्करादेर्गोचरस्य चक्षुरिन्द्रियस्य चैकदेशे मीलनासम्भवात् । चक्षुषोऽप्राप्यकारित्वेन समर्थयिष्यमाणत्वात् । एतेन सम्बन्धपक्षोऽपि विसृष्टोत्तरः । यदा ह्येकदेशे चन्द्रादेश्चक्षुषो मीलनं नास्ति तदा कथं तस्य तेन साकं संयोगादिः सम्बन्धः सम्भवेत् । अथ ज्ञानजनकत्वं भावशब्देनाभिधीयते तदा तस्य प्रतिकारकं भिद्यमानत्वाद्यावन्ति कारकाणि तावन्त्यः प्रमाः प्रसज्येरन् । भवतु वा किञ्चित्साकल्यम् । तथापि सकलेभ्यः किमेतद्भिन्नमभिन्नं वा । यद्यभिन्नम्, तदा सकलान्येव सन्ति न साकल्यं नाम किञ्चित् । अथ भिन्नम्, तर्हि सकलेषु सम्बद्धमसम्बद्धं वा स्यात् । यद्यसम्बद्धं, कथमेतत्तेषां धर्मोऽतिप्रसक्तेः । अथ सम्बद्धम्, तत्किं समवायेन, संयोगेन, विशेषणविशेष्यभावेन वा । न तावत्समवायेन, तस्य षट्पदार्थविचारावसरे निराकरिष्यमाणत्वेनासिद्धत्वात् । नापि संयोगेन | तस्य गुणत्वेन द्रव्येष्वेव सम्भवात् । साकल्यस्य च धर्मरूपत्वेनाद्रव्यत्वात् । नापि विशेषणविशेष्यभावेन । संयोगसमवायाभ्यामसम्बद्ध वस्तुनि विशेषणविशेष्यभावस्यासम्भवात् । अन्यथा सर्वस्य सर्वविशेषणतानुषङ्गात् । समवायवत्समवायिषु संयोगसमवायासत्त्वेऽपि तस्य विशेषणतेति चेत् न । तस्यापि तथासाध्यत्वात् । न चाभाववद्भावेषु तस्य विशेषणता, तस्यापि तथासिद्धयभावात् । नासिद्धमसिद्धस्योदाहरणमतिप्रसङ्गात् । ननु चैते सकलाः समवायिनावेतौ नास्तीह घट इति विशिष्टप्रत्ययः कथं विशेषणविशेष्यभावमन्तरेण स्याद्दण्डीति प्रत्ययवत् । भवतिः चायमबाधितवपुः । न च द्रव्यादिषट्पदार्थानामन्यतमनिमित्तोऽयम् । तदनुरूपत्वाप्रतीतेः । नाप्यनिमित्तः, कदाचित्कचिद्भावात् । ततोऽस्यापरेण हेतुना भवितव्यम् । स नो विशेषणविशेष्यभावः सम्बन्धविशेषः पदार्थविशेषश्चा२५ विनाभाववदिति । मैवम् । समवायवदभाववद्वा साकल्यस्य विशेषण १ दत्तोत्तरः । २० "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy