________________
८८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ६ सामग्रीस्वरूपसमारोपेण तृतीयानिर्देशः स्यात् । अथ प्रयुञ्जत एव प्रामाणिकास्तत्र तृतीयां सामग्र्या पश्याम इति चेत् । मैवम् । उपचरित एष तेषां तृतीयाप्रयोगो मुख्यस्य तत्य ज्ञान एव सद्भावाद्गाढोपयोगेनेदमवगतं मयेति । उपयोगश्च ज्ञानमेव । अस्तु वा ५ प्रामाणिकानां सामग्र्यां मुख्यः प्रदीपादिषु तु सामग्रीस्वरूपसमारोपा
तृतीयानिर्देशः । लौकिकानां तु कथमसौ भविष्यति । नहि ते सामाग्र्या नामापि जानते । न च तेषां मुख्यस्वरूपापरिज्ञानेऽप्यारोपो भविष्यतीत्यालपनीयम् । अनाकलितकलधौतानां मुक्ताकरतीरवर्तिनि
शुक्तिशकले कलधौतारोपाभावात् । तन्न सामग्र्या मुख्यः प्रदीपादिषु १० तूपचरितस्तृतीयानिर्देश इत्युपपन्नम् । तथा च
करणत्वमपहृते प्रदीपे सामग्र्यां पुनरभ्युपैत्यशङ्कः ॥ लोकव्यवहारवत्सलत्वं कीदृशमस्य मनीषिशेखरस्य ।। ६१ ॥ यदप्युदितं साकल्यमध्यपतितत्वेऽपि कर्तृकर्मणोः स्वरूपानपायात्सासाकल्यं सकलकारकाणां कल्यं खलु सकलकारकाणां स्वकीयो धर्म इत्यादि स्वकीयो धर्म इति । मतस्य विकल्पप्रद- तदप्यनवदातम् । यतस्तेषां स धर्मः किन्नित्योऽ
शनपूर्वक खण्डनम् । थानित्यः । न तावन्नित्यः कादाचित्कत्वात् । कटादिवत् । अथानित्यः स कुतः समुत्पद्येत । तेभ्य एवान्यतो वा। न तावदन्यतोऽनङ्गीकारात् । अथ तेभ्य एव तट्टयमर्थः सम्पन्नः । सकलास्ताव
त्साकल्यलक्षणं धर्म जनयन्ति साकल्यलक्षणश्च धर्मः प्रमामुत्पादयति । २० एवं च साकल्यलक्षणधर्मस्य जनने व्यापृताः कादयस्तस्मिन् कर्तृ
त्वेन प्रतीयन्ते । स च प्रमितिलक्षणे फले करणत्वेन । ततश्चैतत्फलं प्रति साकल्यलक्षणो धर्म एव व्याप्रियमाणः कथं साकल्यस्वभावे विषयान्तरे व्यापृताभ्यां कर्तृकर्मभ्यां साधकतमत्वस्वरूपमतिशयं प्रतिपद्यत । अथ कर्तृकर्मणी साकल्यमुत्पाद्य प्रमायामपि व्याप्रियेते
१ रूप ' इति प. म. पुस्तकयोः पाठः।
"Aho Shrut Gyanam"