________________
परि. १ स. ६ ] स्याद्वादरत्नाकरसहितः वक्तुं शक्यत इत्यादि । तदपास्तम् । यदपि मुख्यप्रमातृप्रमेयाभ्यां व्यभिचारमाशङ्ग्य साकल्यप्रसादलब्धप्रमितिसम्बन्धनिबन्धनो हि प्रमातृप्रमेययोर्मुख्यस्वरूपलाभ इत्याधमाणि तदपि न भणनीयम् । अनवधानव्यवधानपराधीने हि प्रमातृप्रमेये गौणस्वरूपे सती न प्रमाणमुपजनयत इति प्रमोत्पत्त्यर्थं स्वस्य प्रमेयस्य च मुख्य ह्यवधानाव्यव- ५ धानरूपस्वरूपं प्रार्थयन्ते प्रमातारः । यदा तु प्रमासम्बन्धनिबन्धनो मुख्यस्वरूपलाभः । तदा पूर्वं गौणाभ्यामपि प्रमातृप्रमेयाभ्यां सकाशात् प्रमा समजनि । संजातायां च प्रमायां किमनेन तत्सम्बन्धनिबन्धनेन मुख्यम्वरूपलाभेन कृतक्षौरस्य नक्षत्रपरीक्षणप्रायेण पश्चात्कर्त्तव्यम् । प्रमित्यर्थं हि प्रार्थ्यतेऽसौ सा चैनमन्तरेणापि समुत्पन्नैव । भवतु वा १० प्रमितिसम्बन्धनिबन्धनः प्रमातृप्रमेययोर्मुख्यस्वरूपलामः । तथापि तयोः प्रमोत्पत्ती व्यापारोऽस्ति न वा । न तावन्नास्ति । तयोः प्रमातृप्रमेयस्वरूपत्वाभावप्रसङ्गात् न खलु परश्वधादिकं छिदायामव्यापारयन्नेव देवदत्तश्छेदको नाम । नापि द्वैधीभावमननुभवदेव पादपादिकं छेद्यम् । अथास्ति तयोस्तत्र व्यापारः । तर्हि यत्तस्यामवस्थायां तयोः स्वरूपं १५ तेन कलिते प्रमातृप्रमेये फलोत्पादाविनामाविस्वभावाव्यभिचाररूपसाधकतमत्वसुभगे भवतो न च तयोः प्रमाणतेति हेतोः स्पष्टस्ताभ्यां व्यभिचारः। यदप्यवादीः सामग्री हि संहतिरित्यादि । तत्र यदि संहन्यमानव्यतिरेकेण व्यवहारपदवीमनवतीर्णायाः सामग्र्याः सामग्र्या पश्याम इति व्यपदेशो नास्ति । माभूत् । यस्तु दीपेन्द्रियादीनां तृतीयया निर्देशः स फलोपजननाविनाभावित्वाख्यसामग्रीस्वरूपसमारोपनिबन्धन इति तु दुश्चरितं कथं प्रस्थापयिप्यते । मुख्यत्वेन हि क्वचित्किञ्चिनिश्चितं सदन्यत्र समारोप्यत इति तावदशेषवादिपरिषदामुपनिषत् । अत्र तु सामयां करणविभक्तिमप्रयुञ्जानैर्जनैर्न फलोपजननाविनाभावित्वं तत्स्वरूपं कदाचिनिश्चितमिति कथं दीपादौ २५
१ उपनिषत्-रहस्यम् ।
"Aho Shrut Gyanam"