________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ स. ६ तत्किं मुख्यमौपचारिक वा भवेत् । न तावन्मुख्यम् । अन्यव्यवहितव्यापारस्य कारकस्य मुख्यकरणव्यवहारागोचरत्वात् । तथाहि यात्रान्येन व्यवहितं तत्तत्र न मुख्यसाधकतमत्वव्यवहारगोचरः । यथा दारुदारणकर्मणि कुठारेण व्यवहितो लोहकारः । अर्थप्रमितौ विज्ञानेन ५ व्यवहिता च सामग्रीति । अथौपचारिकं सामग्र्याः साधकतमत्वं
साधनत्वेनोपदिष्टम् । मुख्यं ह्यर्थप्रमितौ साधकतमत्वं ज्ञानस्य । तस्य जनकत्वात्तु सामग्र्यामपि तदुपचर्यते । कारणे कार्योपचारात् तण्डुलान्वर्षति पर्जन्य इतिवत् । एवं तर्हि तस्याः प्रामाण्यमप्यौपचारिकमेव सिद्धयेत् । न खलूपचरितधूमत्वादतिसमुद्रसमीरसमुत्पाटितपारावतप१. तत्रधूसरधूलिपटलीविशेषादनुपचरितचित्रभानोः कणस्यापि प्रसिद्धिः । अौपचारिकमेव प्रामाण्यं सामग्र्या सिषाधयिषितम्,
साधु साधु सुधियाऽवधारितं यत्समागतमिहाध्वनि क्षणात् । एवमेव तव जल्पतः सखे वारयन्तु दुरितानि देवताः ॥ ६० ॥
अव्यवहितव्यापारत्वेन साधकतमत्वाज्ज्ञानं प्रमाणं तद्धेतुत्वात्तु साम१५ ग्र्यपि प्रमाणमिति हि को नाम प्रामाणिको नाभ्युपैति । एवं च प्रति
ज्ञायाः सिद्धसाध्यतावतारः । अपि च कारकसाकल्यस्य सद्भावेऽपि कचित्प्रमारूपं फलमुत्पतामानं नावलोकितमिति कुतोऽस्य कुत्रापि साधकतमत्वं सिद्धयेत् । आः किमिदमदृष्टपूर्वमुच्यते यत्साकल्यसद्भावेऽपि
न प्रमोत्पत्तिरिति । अलमावेगेन । यतः पश्य वयस्य विहायस्येव ताच२० तत्सद्भावेऽपि न प्रमोत्पत्तिरिति । नन्वसिद्धः कारकसाकल्यसद्भावस्त
त्रेति चेत् कुतोऽसिद्धः । प्रमातुरवहितस्य प्रमेयस्याऽव्यवहितस्य प्रमेयेण साकं हृषीकसन्निकर्षस्य च सद्भावात् । ननु गगने योग्यता नास्ति तत्कुतस्तत्र तत्साकल्यस्यांवैकल्यमिति चेत् । नैतद्युक्तम् । विचारित
त्वात्पूर्वं योग्यतायाः । एवं चासिद्धं साधकतमत्वं सामग्र्याः । ततश्च २५ यदसिद्धताप्रतिबन्धकमभिदधे तच्च सामग्र्यन्तर्गतस्य न कस्यचिदेकस्य
१ हृषीकं इन्द्रियम् ।
"Aho Shrut Gyanam"