________________
परि. १ सू. ६ ] स्याद्वादरत्नाकरसहितः बाधं नैव समाश्रिता कथमपि श्लिष्टा न या शङ्कया
तामर्थप्रमिति सदा विदधती बोधेतरात्मस्थितिः । सामग्री भवति प्रमाणमनघं नैयायिकानां मते .
ज्ञानं केवलमेव ये पुनरमी प्राहुन ते तार्किकाः ।। ५८॥ कारकसाकल्यमहो जल्पन्तोमी प्रमाणमिति निपुणाः ।
५ वैकल्यं किमपि गताः स्मरन्ति यन्नैव नीतिमार्गस्य ॥ ५९ ॥ तथाहि यत्तावत्कथितमर्थप्रमितौ साधकतमत्वादिति साधनस्या
सिद्धताध्वंसनाय फलोत्पादाविनाभाविस्वभावानैयायिकोक्तस्य सामग्रीप्रामाण्यखण्डनस्य व्यभिचारित्वं हि साधकतमत्व मिति तत्र फलो
खण्डनम् । त्पादन विना सामग्री न भवतीति कोऽर्थः । किं १० फलोत्पादेन विना सामग्री नोत्पद्यते पावकेनेव विना धूमः । किंवा फलोत्पादेन विना सामग्री न सत्तामनुभवति यथा वृक्षत्वेन विना शिंशपात्वम् । यद्वा फलोत्पादेन विना फलमनुत्पाद्य सामग्री नावतिष्ठते यथा सातिशयोन्नतिशाली जलभृद्वर्षमकृत्वा । न तावदाद्यः पक्षःपेशल: परस्पराश्रयपराहतत्वात् उत्पन्नयां हि सामग्र्यां फलोत्पादः समुत्पन्ने १५ च फले सामग्री समुत्पत्स्यत इति । नापि द्वितीयः । असिद्धत्वात् । यदि हि वृक्षत्वेन शिंशपात्वस्येव फलोत्पादेन सामग्र्याः सदैव सहचारित्वं स्यात् द्वितीयविकल्पपरिकल्पना । न चैवम् । तत्त्वे हि फलादिव्यपदेश एव न भवेत् समकालभाविनि व्यापाराभावात् । तृतीयाविकल्पेऽप्यर्थप्रमितिस्वरूपस्य फलस्याव्यवधानेनोत्पादिकायाः सामाग्र्याः । साधकतमत्वमुच्यते व्यवधानेन वा। आयकल्पे हेतोरसिद्धिः । सामग्र्याः सकाशादर्थप्रमितेरव्यवधानेनोत्पादायोगात् । ज्ञानेन तत्र व्यवधिसम्भवात् । न च किमनेनान्तराले गलितप्रमाणप्रसादेन ज्ञानेन परिकल्पितेनेत्यभिधानीयम् । तस्योपयोगरूपभावेन्द्रियस्वभावस्य साक्षात्फले व्याप्रियमाणस्य यदसन्निधान इत्यानुद्यमानतः पूर्वं प्रसाधितत्वात् । अथ २५ व्यवधानेन फलोत्पादिकायाः सामग्र्याः साधकतमत्वमन्त्र विवक्षितम् ।
ॐा १५
"Aho Shrut Gyanam"