________________
#
१०
१५
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. १ सू. ६
दिति कथंविधश्चतुष्टयप्रक्षय: । तथाच समाचष्ट भट्टजयन्तः पलेवे
तत्रासन्दिग्धनिर्वाश्रवस्तुबोधविधायिनी । सामग्री चिदचिद्रूपा प्रमाणमभिधीयते ॥ १ ॥ फलोत्पादाविनाभाविस्वभावाव्यभिचारि यत् । तत्साधकतमं युक्तं साकल्यान्न परञ्च तत् ॥ २ ॥ साकल्यात् सदसद्भावे निमित्तं कर्तृकर्म्मणोः । गौण मुख्यत्वमित्येवं न ताभ्यां व्यभिचारिता ॥ ३ ॥ संहन्यमानहानेन संहतेरनुपग्रहात् । सामय्या पश्यतीत्येवं व्यपदेशो न दृश्यते ॥ ४ ॥ लोचना लोकलिङ्गादेर्निर्देशो यस्तृतीयया । स तद्रूपसमारोपादुपया पचतीतिवत् ॥ ५ ॥ तदन्तर्गतकर्मादिकारकापेक्षया च सा । करणं कारकाणां हि धर्मोऽसौ न स्वरूपवत् ॥ ६ ॥ सामग्र्यन्तः प्रवेशेऽपि स्वरूपं कर्तृकर्म्मणोः । फलवत् प्रतिभातीति न चतुष्टुं विनंक्ष्यति ॥ ७ ॥ इति । ततः साकल्यमेव प्रमाणं न पुनर्ज्ञानं तस्य फलरूपत्वात् । फलस्य च प्रमाणत्वमनुपपन्नं तस्य प्रमाणात् पृथग्भूतत्वात् । अथ पृथग्भूतफलोत्पादकमपि स्वकीयहेवाकात् ज्ञानरूपमेव प्रमाणमिष्यते । तदा
शब्दलिङ्गादेः समस्तजनस्वीकृताज्ञानस्वरूपस्याप्रमाणत्वप्रसङ्गः । तस्मात् २० ज्ञानमपि साकल्यान्तर्गतमेव विशेषणज्ञानमेव विशेष्यप्रत्यक्ष लिङ्गज्ञानमिव लिङ्गिज्ञानानुमाने सादृश्यदर्शन भिवोपमाने शब्दज्ञानमिव शाब्दार्थज्ञाने प्रमाणतामास्तिनुते, एवं च---
१ अधुना मुद्रितायां न्यायमञ्जर्यामिदं नोपलभ्यते । न्यायमञ्जर्येव पलवसंज्ञया श्रीवादिदेवसूरिभिः संमन्यते । २ उपाशब्दोऽमिवाचकः । ' उष दाहे' इत्यस्मात्पाणिनीयधातोर्निष्पन्नः स्वा. ग. धा. ६९७.
" Aho Shrut Gyanam"