SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. ६] स्याद्वादरत्नाकरसहितः न चार्थप्रमितावसाधकतमा सामग्री ततः प्रमाणमित्यतोऽनुमानात् । न चात्र हेतोरसिद्धिः। फलोत्पादाविनाभाविस्वभावाव्यभिचारित्वं हि साधकतमत्वम् । तच्च सामग्र्यतर्गतस्य न कस्यचिदेकस्य वक्तुं शक्यते । सामग्र्यास्तु सुवचम् । सन्निहिता चेत्सामग्री सम्पन्नमेव फलमिति सैव साधकतमा। ननु प्रमामुपजनयतो मुख्यस्य प्रमातुः प्रमाविषयीभूतस्य मुख्यस्य ५ प्रमेयस्य च फलोत्पादाविनाभाविस्वभावमव्यभिचारित्वलक्षणसाधकतम- . त्वमस्त्येव । प्रमितिसम्बन्धमन्तरेण तयोस्तथात्वाभावात् । प्रमिणोतीति हि प्रमाता भवति । प्रमीयत इति च प्रमेयम् । न चानयोः प्रमाणतोपगता त्वयेत्याभ्यां व्यभिचारः साधनस्यति चेत् । न व्यभिचारः । साकल्यप्रसादलब्धप्रमितिसम्बन्धनिबन्धनो हि प्रमातृप्रमेयधर्माख्यस्वरूपलाभः । साक- १० ल्यापाथे च प्रमित्यभावाद्गौणे प्रमातृप्रमेथे संपद्यते । एवं च साकल्य- . मन्तरेण यदि प्रमितिः कल्प्येत भवेयभिचारो नत्वसौ तथा दृश्यत इति । ननु यदि सामग्र्याः साधकतमत्वं स्यात्तदावश्यमस्याङ्करणविभक्तिनिर्देशो दृश्येत । नचैवम् । नह्येवं वक्तारो भवन्ति लौकिकाः सामग्र्या पश्याम इति किन्तु दीपेन पश्यामश्चक्षुषा वीक्षामह इत्याचक्षते । तन्न १५ सूक्ष्मम् । सामग्री हि संहतिः सा च संहन्यमानव्यतिरेकेण न व्यवहार पदवीमवतरति । तेन सामग्र्या पश्याम इति न व्यपदेशः । यस्तु दीपेन्द्रियादीनां तृतीयया निर्देशः स फलोपजननाविनाभावित्वाख्यसामग्रीस्वरूपसमारोपनिबन्धनः । अन्यत्रापि च तद्रूपसमारोपणेन स्थाल्या पचतीति व्यपदेशो दृश्यत एव । ननु कर्तृकर्मापेक्षया करणसामग्री मध्य- २० माऽग्र्ययोश्च कर्तृकर्मणोः स्वरूपप्रध्वंसतोऽसम्भवात् तदपेक्षया कथं साकल्यस्य करणत्वमिति । एवं च प्रमाता प्रमाणं प्रमेयं प्रमितिरिति चतसषु विधासु तत्त्वं परिसमाप्येत इति रिक्ता वाचोयुक्तिः । अयुक्तमेतत् । साकल्यमध्यपतितत्वेऽपि कर्तृकर्मणोः स्वरूपानपायात् । साकल्यं खलु सकलकारकाणां स्वकीयो धर्मो न च स्वकीयो. धर्मः स्वरूपध्वंसाय २५ जायते । साकल्यदशायामपि कारकाणां स्वरूपस्य प्रत्यभिज्ञायमानत्वा "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy