SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः परिः १. सू. ६ सन्निकर्षः प्रमाणम् । तदापि संविदेव फलम् । तदर्थं प्रवृत्तत्वात् साधनानाम् ' इत्याह तत्रात्ममनःसन्निकर्षस्येन्द्रियविषयसन्नि. कर्षस्येन्द्रियमनःसन्निकर्षस्य वा प्रामाण्यमेतेनैव सन्निकर्षप्रामाण्यपराकर णेन प्रत्यादिष्टम् । यच्च मनस इन्द्रियस्य वा प्रामाण्यमुक्तम् । तदपि पूर्वमेव "५ वाचस्पतिमपहस्तयद्भिहें तुमात्रोक्तावपि यः साक्षादुपलब्धौ हेतुरिन्द्रि यादिः स एव चेत् प्रमाणतयाभिप्रेतः सूक्ष्मदर्शिनोऽस्य तदा स्वपरव्यवसायिज्ञानमेव तथाभ्युपगन्तुमुचितमित्यादिना दत्तनिर्वचनम् । यदपि यदा मितिर्मानमिति भावसाधनं मानमाश्रीयते तदप्यस्य विशे षोत्प्रेक्षणैकबद्धकक्षस्याप्यत्यन्तमार्जवम् । प्रमितौ साधकतमत्वेन हि प्राप्त३० प्रमाणाभिख्ये प्रमाणे विप्रतिपत्तेस्तस्यैव स्वरूपं प्ररूपणीयं प्रामाणिकेन । तत्साध्यायास्तु प्रमितिरूपायाः क्रियायाः प्रामाण्यमुपदिश्यमानं कथं सङ्गच्छेत । कथं वा प्रमितिस्वरूपफलरूपां क्रियामेव प्रमाणत्वेन प्रतिपाद्य तस्या अपि हानोपादानोपेक्षारूपफलाभिधानं साधीयः ! हानोपादानोपेक्षासु प्रमितेः साधकतमत्वाच्चेत् तर्हि त्यक्तमिदानी मितिर्मानमिति भावसाधनो मानशब्द इति । मितेरपि हानादौ फले साधकतमतया करणत्वेन मानशब्दवाच्यत्वाभ्युपगमात् । एवमभ्युपगमे च न काचिदावयोर्विप्रतिपत्तिः । अस्माभिरपि स्वपरव्यवसायिनः संवेदनस्य हानादिफलसाधकस्य प्रमाणतया स्वीकृतत्वादिति । सन्निकर्षस्य नैवातश्चिन्त्यमानं कथञ्चन । गौणी वृत्तिं परित्यज्य प्रामाण्यमुपपद्यते ॥ ५६ ॥ सुशिक्षितास्तु प्रतिपादयन्ति नैयायिकाः स्वस्य रहस्यमेतत् । प्रमासमुत्पादककारकाणां साकल्यमेवेह समस्तु मानम् ॥५७॥ तथा च सन्देह व्यभिचारशून्यवस्तूपलब्धिहेतुर्बोधाबोधस्वभावा साम येव प्रमाणम् । सामग्रीति कारकसाकल्यमिति २५ सामग्रीप्रमाणमिति चैक एवार्थः । प्रामाण्यसिद्धिश्चास्याः सामग्री प्रमा के णमर्थप्रमितौ साधकतमत्वात् । यत्तु नैवं न तदेवं यथोभयाभिमतम् । व्यव "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy