________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ६ षष्ठः सन्निकर्षः । सोऽपि संयोगादिसम्बन्धान्तरनिराकरणादेव निरस्तः । न हि संयोगसमवाययोरन्यतरेण सम्बन्धेनासम्बद्धयोर्वस्तुनोर्मलयहिमालयशैलयोरिव स सङ्गच्छते । यदप्यसन्निकृष्टस्य ग्रहणे सर्वस्य सर्व
त्रार्थे ज्ञानमुत्पद्यतेति नैयायिकैरुदनीवमुद्गीर्यते । तदप्येतेन प्रक्षिप्तम् । ..५ असन्निकृष्टस्य योग्यस्यैव ग्रहणाभ्युपगमात् । कथमन्यथा सन्निकृष्टेऽपि
सर्वत्रार्थे ज्ञानं नोत्पद्येत । एवं च सति यस्मिन् सत्यपि यन्नोपजायते न तत्तत्करणम् । यथा सत्यपि शालिबीजेऽनुपजायमानः कोद्रवाङ्कुरः । सत्यपि सन्निकर्षे नोपजायते चार्थप्रमितिरितीदमनवयं सन्निकर्षप्रामाण्य
बाधाविधायि साधनमवतरति । ततस्तत्र बाह्ये विषये रूपादौ चतु१० ष्टयसन्निकर्षाज्ज्ञानमुत्पद्यते इत्याद्यपि व्योमकमलिनीकुसुमसुकुमारता
श्लाघां नातिशेते।
किञ्च
यदि निगदसि विद्वन्मानतां सन्निकर्षे
कथय कथामिदानीमस्तु सर्वज्ञवार्ता । असति न खलु तीतोनागते वस्तुजाते
_प्रमितिजननहेतुः सन्निकर्षः समस्ति ।। ४९ ॥ अथो भवेजन्म यदैव यस्य संवेदनं तस्य तदैव च स्यात् । इत्थं कथं हन्त मृगाङ्कमौलेः सर्वज्ञता कल्पशतैरपि स्यात् ॥ ५० ॥
वर्तमानविषयानथ सर्वान् वेत्ति विश्वविदुरत्वमतश्चेत् । २० नैव भाविविषयाणि वचांसि स्युः प्रमाणमिह तस्य तदानीम् ॥५१ ॥
. ततश्च तदुपदेशवशेन विशंकिताः कथय कोविद भाविफलार्थिनः । कचन कर्मणि किं कलितोद्यमाः स्युरिति तस्य भत्कथमाप्तता ॥५२॥ ....१ 'कारणम् ' इति भ. पुस्तके पाठः । २ 'तीतानागते' शब्देऽकारलोपे प्रमाणे मृग्यम् । 'वष्टि भागुरिरलोपमवाप्योरुपसर्गयोः ।' इति भागुरिमलेनावाप्योरेवाकारलोपस्यानुशासनादतीत्युपसर्गगताकारलोपस्याननुशासनाच्च । कदाचिच्छन्दोमङ्गमियाकारलोप आहतः स्यात् ।
"Aho Shrut Gyanam"