SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ परिः । सू.६] स्याद्वादरत्नाकरसहितः । किमपि कौतुकमेतदहो जनाः शृणुत यूयममुष्य मनस्विनः । . कवलितोत्कटहालहलोऽपि सन्नवसुधारसमुद्रितीह यत् ॥ ४५ ॥ प्रामाण्यं मुख्यया वृत्त्या ज्ञानस्थैव सुसंगतम् ।। गोण्या तु सन्निकर्षस्य को हि धीमान्न मन्यते ॥ ४६॥ तस्मादवस्थितमिदं नियतमसिद्धया कटाक्षितो हेतुः । अर्थप्रमितावित्यादिलक्षणः पूर्वमुक्तो यः ॥ ४७ ॥ अगतिकगतिनीत्या यस्तु हेतोरसिद्धा दपि वदति विशुद्धामत्र साध्यस्य सिद्धिम् । स खलु गलितबुद्धिर्वन्ध्यसीमन्तिनीतः __ स्पृहयति भुवनानां भूषणं पुत्ररत्नम् ॥ ४८ ॥ -- १० यत्तु सन्निकर्षप्रसिद्धौ बाह्येन्द्रियत्वादिनेत्यादि गदितम् । तच्चक्षुः प्राप्यकारित्वपराकरणप्रस्तावे सविस्तरमपाकनैयायिकाभिमतसन्निकर्ष कष- रिष्यते । यदपि प्रपञ्चतः सन्निकर्षषट्कघोषणषट्कस्य खण्डनम् । तदापि स्वसिद्धान्तश्रद्धालुताप्रसूतप्रक्रियामात्रम् । तथाप्राप्यकारित्वेन चक्षुषः समर्थयिष्यमाणत्वान्न १५ कुम्भादिना संयोगः सम्भवति । तदभावान्न संयुक्तसमवायादिः । यदि च संयुक्तसमवायाच्चक्षुषा रूपादि परिच्छिद्यते । तर्हि तदविशेषान्नभासि शब्दः, सहकारफलादौ रसादिः, सहस्रदीधितौ कर्म च तेन परिच्छिद्येत । संयुक्तसमवेतसमवायाच्च रूपत्व इव रसत्वादावपि चाक्षुषज्ञानमुपजायेत । समवायाच्च श्रवणेन्द्रियस्य ध्वनाविव व्योम्नो महा- २० परिमाणादिगुणेऽपि । समवेतसमवायात्तु शब्दत्व इव महापरिमाणत्वादिसामान्यसमूहेऽपि प्रमितिः समुत्पद्येत । न्यायस्य समानत्वात् । अथ योग्यतामाहात्म्यात्प्रतिनियत एव वस्तुनि नयनादीन्द्रियाणां संवेदनमुन्मीलति तेन नातिप्रसङ्ग इति निगद्यते। तर्हि धीमन् योग्यतामेव सर्वत्र नियामिकामङ्गीकुरु । किमनया प्रतिपदं विचारतो विशीर्यमाणया सन्निकर्ष- २५ कथाकथया । यस्तूक्तसम्बन्धसम्बद्धवस्तुविशेषणविशेष्यभावाभिधानः "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy