________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ६ अथ प्रमातृगतस्य प्रतिबन्धकापगमरूपस्य तस्य सन्निकर्षसहप्रतिबन्धकापगमः सन्नि-कारित्वं स्वीक्रियते तदपि न समगतम् । प्रमातुः ..कर्षसहकारीति मतस्य खलु प्रमामुपजनयतः सन्निकर्षः प्रतिबन्धका.
पगमश्च सहकारीत्येव युक्तम् । प्रतिबन्धकापगमः .५ सन्निकर्षसहकारीति तु कौतस्कुती, नीतिः । नहि दाह्यसंयोगसहकारिणः
कृपीटयोनेः स्फोटं घटयतो मणिमन्त्रादिप्रतिबन्धकाभावः संयोगस्य . सहकारीति वक्तुं युक्तम् । ननु प्रमोपजनने प्रमातृसहकारिणश्चक्षुषो व्याप्रियमाणस्याञ्जनादिकं चक्षुष एव सहकारि न प्रमातुरेवमत्रापि
प्रतिबन्धकापगमः सन्निकर्षस्थैव सचिवो भविष्यतीति चेत् मैवम् । १० अञ्जनादिकं हि चक्षुषस्तिमिराद्यभावस्वभावातिशयविशेष पोषयतीति
तत्रैव तस्य साचिव्यमुपपद्यते । प्रक्रान्ते तु नैवमुभयस्यापि प्रमा प्रत्येव व्यापारात् । तथापि सन्निकषमेव प्रतिप्रतिबन्धकापगमस्य सहकारित्वकल्पने तच्छिद्रेणैव विपर्ययपाटचरः प्रविशन्नशक्यः प्रतिरोद्भुम् ।
तथाच प्रतिवन्धकापगम एव साधकतम एवं स्यात् । नन्वेवं प्रति१५ बन्धकापगमस्य साधकतमत्वसिद्धौ बद्धकक्षाणां वः स एव.
प्रमाणं स्यात् तथा चोपयोगस्यादितः प्रमाणत्वसमर्थनमनायैव भवेदिति चेत् नैवम् । प्रतिबन्धकापगमे साधकतमत्वस्य प्रतिबन्धिन्यायेनैवाभिधानात् । यदि प्रमातृसहकारितायामुभयोरविशि
ष्टायामपि सन्निकर्षस्यैव साधकतमत्वमिष्यते तदा प्रतिबन्धकापगमस्यैव २० किं न स्यादिति । तत्त्वतस्तु यत्फलं प्रत्यत्यन्ताव्यवहितव्यापार
तदेव साधकं साधकतमम् । अत एव च प्रमाणम् । तच्च नोपयोगादपरमुपपद्यते । अयं चोपयोगः स्वपरप्रमितिरूपस्तस्यां एव व्यापारांशमाश्रित्य प्रमाणताव्यवहारादिति ज्ञानमेव प्रमाणम् ।प्रमाणभूतस्य ज्ञानस्य हेतुत्वात् सन्निकर्षस्यापि प्रामाण्यं प्रतिजानीमह इति चेत् ।
१.प्रमातुः खलु' इत्यस्य स्थाने ' तस्य तु' इति म. पुस्तके पाठः । २ प्रतिप्रश्नेन समाधानं यत्र क्रियते तत्र प्रतिबन्धिन्यायोऽवतरति ।
"Aho Shrut Gyanam"