________________
परि. १ सू. ६] स्याद्वादरत्नाकरसहितः न च तिमिरे सति रश्मिप्रसरणमेव नास्तीति वाच्यम् । दूरासन्नसिमिरयोः सतोर्दूरासन्नवर्तिवस्तूपलम्भस्याभावप्रसक्तेः। तन्न प्रमेयगतोऽपि गुणः सन्निकर्षसहकारी । नापीन्द्रयगतः । तस्य कलशादिवद्वियत्यपि चक्षुःसन्निकर्षसहकारिणः सद्भावात् । तद्गुणस्य गगनेनाविरोधात्। विरोधे वा तस्य सदा सत्त्वेन लोचने कदाचिदपि गुणानुत्पत्त्या रूपमात्रो. ५ पलम्भस्याप्यभावात्कष्टमिदानीमस्तमितस्त्रैलोक्यां प्रकृतिप्रसन्नसज्जनवदनारविन्दावलोकनमहोत्सवः । तन्न गुणोऽपि तत्सहकारी। --- नापि कर्म । तस्योन्मीलनादेविलोचनगतस्य तत्रापि सम्भवात् ।
विषयगतस्य तूपलब्धि प्रत्यनङ्गत्वात् । अन्यथा कर्म पदार्थधर्मोऽभावो या सन्निकर्षसहकारीति स्थिरपदाथानां कथमुपलम्भो भवेत् । अथ पदार्थ- १० पक्षस्य खण्डनम् । धर्मः कश्चित्सहकारी सोऽपि न नाम नयनगगनसन्निकर्षे नास्तिः । प्रमातस्थस्य सन्तृप्तत्वादेरिन्द्रियस्थस्य नैर्मल्यालोकसहकृतत्वादेविद्यमानत्वात् । प्रमेयस्थोऽपि दृश्यस्वभावतारूपोऽसौ नमसि सम्भवत्येव । कथमन्यथा शूलिनस्तदुपलम्भः । विरूपाक्षापेक्षया दृश्यस्वभावताधर्मादपर एवायमस्मादृक्षापेक्षया । नचासौ नभसि विद्यत इति १५ कुतस्तदुपलब्धिरिति चेत् । तत्किं त्वादृशो यदि कदाचिद्योगित्वमाप. त्स्यते तदा न द्रक्ष्यत्यन्तरिक्षम् । तथात्वे वा त्वन्निदर्शनेनैव न विरूपाक्षादपरस्य कस्यचिद्विश्ववेदिता स्यादिति सर्वथा व्यर्थस्तदर्थः । प्राणिनां प्रयासः स्यात् । तस्मादस्त्येव त्वादृक्षाप्रेक्षयाप्यन्तरिक्षे दृश्यस्वभावता । नच योगिदशायामेवासौ तस्य समुत्प- २० द्यत इति वाच्यम् । पूर्वमपरस्वरूपत्वेन गगनस्यानित्यत्वप्रसङ्गात् । तन्न पदार्थधर्मोऽपि सहकारी नाप्यभावः । सोऽपि हि नयने काचकामलादिदोषाभावस्वभावो नभास तु स्तम्भकुम्भाधावरणाभावस्वभावः सन्निकर्षसहकारी समस्ति न च गगनगोचरसंवेदनोदयः ।
"Aho Shrut Gyanam"