SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. ६ महत्त्वं तावयोनि परमप्रकर्षपर्यन्तप्राप्त सन्निकर्षसहकारि समस्त्येवेति सुतरां तदुपलब्धिः स्यात् । रूपमपि यत्र द्रव्ये समवेतं तस्यैबोपलब्धौ सन्निकर्षसहकारि स्यात्। तद्वर्तिनामन्येषामपि द्रव्यत्वादीनां वा । आद्यभेदे सामान्यादीनां कथं कदाचिदप्युपलब्धिः । तेषामद्रव्यखेन रूपसमवायासम्भवात् । यत्र द्रव्ये समवेतं रूपं तद्वर्तिनामन्येषामपि द्रव्यत्वादीनामुपलब्धौ सन्निकर्षसहकारि तदिति पक्षेऽपि कथं कापि रूपस्योपलम्भः । नहि तत्र रूपान्तरमस्ति । यत्तदुपलब्धौ सहकारि स्यात् । यावत् द्रव्यमाविसमानजातीयगुणद्वयस्य युगपदेकत्र त्वयानभ्युप गमात् । न च तदेव रूपं स्वोपलब्धौ सहकारीति वक्तव्यम् । एवं १० विहायसोऽपि नयनसन्निकर्षे सहकारित्वप्रसङ्गेनोपलम्भो भवेत् । रूप मपि हि रूपान्तरमन्तरेणैव स्वरूपमात्रेण स्वोपलब्धि विधत्ते । तच्चान्तरिक्षेऽप्यक्षुण्णमस्त्येव । किञ्च यदि रूपं तत्सहकारि कथन्तर्हि पार्थिवादिपरमाणौ रूपवत्यपि नोपलब्धिः । अथ महत्त्वं रूपं चेत्युभयमपि तत्सहकारि न च परमाणौ तदस्ति । सत्यपि तत्र रूपमात्रेऽनुपचरिता१५ णुपरिमाणाधिकरणत्वेन महत्त्वशून्यत्वात् । तथा च सूत्रम् ।' महत्य नेकद्रव्यवत्त्वाद्रूपाचोपलब्धिः ' इति । तदपि विचारासहम् । महतो रूपवतोऽपि सन्तप्तपयोवर्तिनस्तेजोवयविनः सत्यपीक्षणरश्मिसन्निकर्षेऽनुपलम्भात् । अथ न महत्त्वसहचरितं रूपमात्रमेव सन्निकर्षसह कारि किन्तूद्भूतरूपं न च तन्नीवर्जिनि तेजसि समस्तीति कौत२० स्कुती तदुपलब्धिः । तदपि नोपपन्नम् । महत उद्भूतरूपस्य परिकरित. नेत्रगोलकस्य तिमिरादिरोगावयविनो विद्यमानेऽपि नेत्ररश्मिसन्निकर्षेऽनुपलम्भात् । न च तत्र राश्मिसन्निकर्ष एव नास्तीति वक्तव्यम् । तेनासंयुक्तानां तेषां कुम्भादिभावप्रकाशनाय बहिनिःसरणासम्भवात् । न खलु स्वच्छसूर्यकान्तशिलासातघटितभित्त्या संसर्गमनासाद्य चक्षू२५ रश्मयस्तत्परभागभागिनो भावानवभासयन्ति । भित्त्यनवभासप्रसङ्गात् । १' सन्निकर्ष ' इत्यधिक प. भ. पुस्तकंयोः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy