________________
परि. १सू.६] : स्याद्वादरत्नाकरसहितः खानामधेयं तत्त्वमिष्टमायुष्मतः । शक्तिरिति चेत् सा तर्हि सहकारिसान्निध्यस्वरूपैवात्र स्वीकर्तव्या । स्वरूपशक्तेः सन्निकर्षे सत्त्वात् । तस्यां च वक्ष्यमाणकारकसाकल्यपक्षनिक्षिप्तसमस्तदोषानुषङ्गः । सहकारिसान्निध्यस्य कारकसाकल्यान्नाममात्रेण भिन्नत्वात् । किञ्च किमत्र द्रव्यं गुणः कर्म पदार्थधर्मः कश्चिदभावो वा सहकारितया कथ्येत । ५ द्रव्यं चेत् । व्यापकमव्यापकं वा । व्यापकं तावदात्मादि चक्षुरन्तरिक्षसन्निकर्षस्य सहकारि समस्त्येव । अव्यापकमपि तन्मनो नयनमालोको वा कलशचक्षुःसन्निकर्षस्येव तत्सन्निकर्षस्य सहकारि विद्यत एव । गुणोऽपि प्रमातृगतः प्रमेयगत इन्द्रियगतो वा तत्सहकारी स्यात् ।
यदि प्रमातृगतः सोऽपि धर्मविशेषोऽन्यो वा । १० गुणसहकारित्वपक्षस्य स __ खण्डनम् ।
धर्मविशेषस्तावद्विद्यत एव । न खलु गगननयन
मान स्वळ गगन
सन्निकर्षस्य धर्मविशेषेण सह विरोधो येन तत्सद्भावे धर्मविशेषस्यानुत्पादः प्रध्वंसो वा भवेत् । विरोधे वा कुम्भाधुपलम्भोऽपि न कदाचिदुत्पद्येत । विरोधिगगननयनसन्निकर्षस्य सदा सद्भावेन तदुत्पत्तिसहकारिणो धर्मविशेषस्यासम्भवात् । अथ गगनगोचरज्ञानोत्पादकेनैवधर्मविशेषेण व्योमनयनसन्निकर्षस्य विरोधो न पुनः कुम्भादिविषयविज्ञानोत्पादकेनेति वियद्गोचरस्यैवोपलम्भस्याभावो नतु कुम्भादिविषयस्येति । ननु कुत एतनिश्चितम् । नयनगगनसन्निकर्षसद्भावेऽपि गगनगोचरस्यैव ज्ञानस्यानुत्पत्तेरिति चेत् । मैवम् । किमियं तदुत्पादकधाविशेषाभावाद्वियद्विषयकविज्ञानस्यानुत्पत्तिरुताहो तस्य साधकत- २० मत्वाभावादिति ने तद्नुत्पत्तिः सन्दिग्धाऽनैकान्तिकत्वकलङ्कितत्वात् । अपरोऽपि प्रयत्नादिः प्रमातृगुणस्तत्सहकारी न नाम नास्ति । अथ प्रमेयगतो गुणः सन्निकर्षसहकारी स्वीक्रियते । नन्वसावपि समस्त्येव । . व्योमनयनसन्निकर्षे द्रव्यत्वेन व्योम्नो गुणसङ्गित्वात् । अथ न गुण इत्येव सहकारी किन्तु गुणविशेषः । स किं महत्त्वं रूपमुभयं वा । २५ -१'न' इति नास्ति म. प. पुस्तकयोः । २ 'तदनुत्पत्तेः' इति प. म. पुस्तकयोः पाठः । ३ ' न नानाऽस्ति' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"