________________
प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १. सू. ६०
प्रदीपस्य पदार्थपरिच्छित्तौ करणत्वं मुख्यत उपचारतो वा स्वीक्रियते । न तावन्मुख्यतः । प्रदीपस्य नयनमनोरूपमुख्यकरणसहकारितयोपचारत एव करणत्वव्यवहारात् । अथोपचारत एव करणत्वमस्येप्यते । नास्ति तर्हि व्यभिचारः । यथाह्यर्थपरिच्छित्तौ करणत्वमस्योपचारतः समस्ति तथा स्वपरिच्छित्तावपि तद्विद्यत एव । नयनादेरर्थसंवेदनमिव प्रदीपसंवेदनमप्युपजनयतः प्रदीपस्य सहकारित्वाविशेषेणार्थप्रकाशनवत् स्वप्रकाशनेऽपि करणतोपचारव्यवस्थितिः । नयनादिनाऽनेकान्त इत्यपि न कान्तम् । यतस्तेनापि द्रव्येन्द्रियरूपेण भावेन्द्रियरूपेण वाऽनेकान्तः स्यात् । न तावदाद्येन । तस्य भावेन्द्रियोपकरण१० रूपस्योपचारेणैव करणत्वात् । नापि द्वितीयेन तस्यापि लब्ध्यात्मन उपयोगात्मकभावकरणकारणत्वेन करणत्वव्यवहारात् । उपयोगात्मकस्य तु तस्यार्थपरिच्छित्ताविव स्वपरिच्छित्तावपि करणत्वसद्भावात् । न चैतादृशमिन्द्रियमसिद्धम् । अनन्तरमेव प्रसाधितत्वात् । ततो न नयनादीन्द्रियेणापि स्वनिश्चितावकरणत्वादिति हेतोरनेकान्तः । एवं १५ च सन्निकर्षे करणत्वप्रतिषेधस्य प्रतिषेदुमशक्यत्वात् स्वपरव्यवसायिज्ञानस्य करणतयोपपादितत्वाच्च सन्निकर्षः प्रमाणमर्थप्रमितौ साधकतमत्वादित्यत्र हेतोरसिद्धिः सिद्धा भवति । अपि च यत्र प्रमात्रा व्यापारिते सत्यवश्यं कार्यमुपजायते तदन्तरेण तु नोपजायत एव तत्र साधकतममिति व्यपदिश्यते यथा च्छिदायां दात्रादि ।
५४
५
न च नयननभः सन्निकर्षसद्भावेऽपि संवेदनं कदाचिदाकाशगोचरआकाशादौ नयनसंनि- मुन्मज्जति । ततः कथं सन्निकर्षः कचिदपि कर्षस्य॒ सत्त्वेऽपि प्रत्य- ज्ञाने साधकतमतया व्यपदिश्येत । न च क्षानुत्पत्तेर्न तस्य साधक. तमत्वमित्युपपादनम् । नभसि नयनसन्निकर्ष एव नास्तीति वक्तव्यम् । अन्यतर कर्मजस्य संयोगस्य तत्र सद्भावात् । अन्यथा समस्तमूर्त्तद्रव्य२५ संयोगाद्गगनसर्वगतत्वसाधनविरोधात् । अथाभिधीयते वियति विलो - चनसन्निकर्षस्य योग्यतावियोगान्न ज्ञानोत्पत्तिः । ननु किमिदं योग्य
२०
" Aho Shrut Gyanam"