SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ कषांचिन्मतस्य खण्डनम् । परि. १ सू. ६ 1 स्याहादरत्नाकरसहितः केचित्तु 'सतोऽर्थग्रहणाकारा शक्तिनिमिहात्मनः। करणत्वे लब्धीन्द्रियं प्रमाणमिति विनिर्दिष्टा न विरुद्धा कथञ्चन ॥१॥ इति . परमार्थतो भावेन्द्रियस्यैवार्थग्रहणशक्तिलक्षणस्य साधकतमतया करणताध्यवसायादिति च ब्रुवाणा लब्धीन्द्रियं प्रमाणं समगिरन्त, तन्न समगस्त । उपयोगात्मना करणेन लब्धेः फले व्यव- ५ धानात् । सन्निकर्षादिवदुपचारत एव. प्रमाणतोपपत्तेः । किश्वेयं यदि ज्ञानशक्तिः प्रत्यक्षा कक्षीक्रियते तदा शक्तीनां परोक्षत्वसमर्थनमनवसरमेव जैनानां भवेत् । अथाप्रत्यक्षासौ, तदा तस्याः करणज्ञानत्वे प्रभाकरमतापत्तिः। तत्र करणज्ञानस्य परोक्षत्वव्यवस्थितेः फलज्ञानस्य च प्रत्यक्षतोपगमात् । ततः प्रत्यक्ष करणमिच्छता न १० तच्छक्तिरूपमेषितव्यं स्याद्वादिना । अथ न जैनानामेकान्तेन किञ्चित् प्रत्यक्षमप्रत्यक्षं वा । तदिह द्रव्यार्थतः प्रत्यक्षा ज्ञानशक्तिः । पर्यायार्थतस्तु परोक्षा । अयमर्थः-स्वपरपरिच्छित्तिरूपात्फलात् कथञ्चिदपृथग्भूते आत्मनि परिच्छिन्ने तथाभूता तजननशक्तिरपि परिच्छिन्नैवेति । नन्वेवमात्मवर्तिनामतीतानागतवर्त्तमानपर्यायाणामशेषाणामपि द्रव्या- १५ र्थतः प्रत्यक्षत्वाद्यथा ज्ञान स्वसंविदितमेवं तेऽपि स्वसंविदिताः किं न स्युः । तथाच बौद्धान् प्रति सुखादीनां स्वसंविदितत्वप्रतिषेधप्रयासो निःसार एव स्यात् । तदिह यत् स्वयमात्मानं वेत्ति तत् स्वसंविदितमुच्यते । उपयोग एव च तादृशो न शक्तिः सुखादयश्च । शक्तिर्हि द्रव्याधिगमद्वारग्रहणा सुखादयः पुनरुपयोगाख्यपर्यायान्तरसमधि- २० गम्याः । किंञ्च यदि द्रव्यार्थतः प्रत्यक्षत्वात् स्वसंविदिता ज्ञानशक्तिः। तदाऽहं घटज्ञानेन घटं जानामीति करणोल्लेखो न स्यात् । नहि कलशसमाकलनवेलायां द्रव्यार्थतः प्रत्यक्षत्वेऽपि प्रतिक्षणपरिणामिनामसीतानागतानां च कुशलकंपालादीनामुल्लेखोऽस्ति । तत उपयोग एव साधकतमः प्रत्यक्षेऽपि प्रमा प्रतीत्यसिद्धः । तस्यैव तत्र घटमानत्वा-- २५ दिति । यदपि प्रदीपेन व्यमिचारोद्भावनमकारि सदप्यचारु । यतः "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy