SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रमामनयतत्त्वालोकालङ्कारः परि. १ सू. ६ सुखादेरप्यात्मनः कथञ्चिदभेदसिद्धेः । ततः सिद्धं ज्ञानं करणमात्मनः कथञ्चिद्भिन्नम् । ज्ञानस्याथ प्रमाणत्वे फलस्व कस्य कथ्यते । स्वार्थसवित्तिरस्त्येव ननु किं न विलोक्यते ॥ ४० ॥ स्यात्फलं स्वार्थसंवित्तिर्यदि नाम तदा कथम् । स्वपरव्यवसायित्वं प्रमाणे घटनामियात् ॥ ४१॥ . उच्यते-- स्यादभेदात्प्रमाणस्य स्वार्थव्यवसितेः फलात् ॥ नैव ते सर्वथा कश्चिद्दषणक्षण ईक्ष्यते ॥ ४२ ॥ आश्चर्यमाश्चर्यमहो तदेतद्विलोक्यतां शुक्लपटाङ्कितानाम् !! ज्ञानं यदेकं नितरां विरुद्धप्रमाप्रमाणत्वपदं वदन्ति ॥ १३ ॥ अनोच्यतेआश्चर्यमाश्चर्यमहो तदेतद्विलोक्यतां भस्मकणाकितानाम् कथञ्चिदेकत्र मतौ वदन्ति प्रमाप्रमाणत्वविरुद्धतां यत् ॥४४॥ यदि हि तदेकान्तेनैकरूपमुपेयेमहि, यदि च येनैव रूपेण प्रमाण तेनैव ____वा फलं येनैव फलं तेनैव वा प्रमाणमाचक्षीमहि, ज्ञानात्मनोभ॑दस्याभेदस्य वा एकान्तस्य तदा स्यादेव विरोधसम्बन्धदुर्गन्धता । न चैवम् खीकरणमसङ्गतम्। तस्यानैकान्तात्मकत्वेनैव कक्षीकारात् । आत्माऽ. नेन जानातीति साधकतमस्वभावेन ज्ञाने प्रमाणत्वव्यपदेशाज्ज्ञतिक्रियारूपतया तु फलत्वाभिधानस्य स्वीकाराच्च । यथा प्रदीपः प्रकाशात्मना प्रकाशयतीत्यत्र साधकतमः प्रकाशात्मा करणं क्रियात्मा फलमिति । सप्रपञ्चं चैतत् पुरस्तात् प्रपञ्चयिष्यते । तदित्थमुपयोगात्मकं भावेन्द्रियमेव प्रमितौ साधकतमत्वेन घटते न सन्निकर्षः । १५ "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy