________________
परि. १ सू. ६]
स्याद्वाद रत्नाकरसहित :
400
इद्रियमनःसन्निकर्षोऽपि च तत्र पूर्ववत् प्रकटनीयः । नन्वेवमप्युपयोग - स्य त्वन्मतेन कर्तुरमेदात् स एव कर्त्ता तदेव करणमित्यायातमेतच्च विरुद्धमित्यलमेनं दुःशिक्षितक्षत्रियपुत्रमिव स्वजनकविरोधदायिनं स्वीकृत्येति चेत् तदनिपुणम् । परिणामपरिणामिनोर्भेदविवक्षायां तदभिधाने विरोधासम्भवात् । ज्ञानपरिणामो हि करणमात्मनः कर्तुः कथञ्चिद्भिन्नम् | अन्यथा स्वप्रज्ञयैव शास्त्रसंदर्भगर्भमेनमवैमीति विभक्तकर्तृकरणनिर्देशानुपपत्तेः ।
स्यान्मतं ज्ञानमात्मनः सर्वथाभिन्नं गुणत्वात्सुखादिवदिति चेत् तदयुक्तम् । हेतोः कालात्ययापदिष्टत्वात् । ज्ञानात्मनोः कथञ्चिद्भेदस्या- प्रत्यक्षतो ज्ञानकरणस्यात्मनः कर्तुः कथञ्चिद- १० भेदस्य च सिद्धिः। भिन्नस्य प्रतीतेः संबद्धत्वात् । तत्र तथातावत्संयोगः । सम्बन्धः । तस्य
गुणरूपे ज्ञाने सम्भवाभावात् । कोपाटोपसंघटमानमेषयुग्मेऽप्यसौ
प्रतीतिरिति चेत् ननु न गुणत्वेन द्रव्यमात्रवृत्तितया संयोगाच्च तथाप्रतीतिस्वीकृतौ
२०
स्यात् । समवायः पुनः कथञ्चित्तादात्म्यादपरः कश्चिन्नास्त्येव । १५ तथाहि सौ समवायिभ्य: सर्वथा भिन्नः । तर्हि कथं तेषां सम्बन्धिनामयं संबन्ध इति व्यपदिश्येत । सम्बन्धान्तराचेत् तदपि यदि `सम्बन्धिभ्यः सर्वथा पृथक् तर्हि तस्यापि तत्सम्बन्धित्वे किं नाम - -निमित्तम् । यदि सम्बन्धान्तरमेव ध्रुवीथाः तर्हि कतमामातिथेयीमनबस्थादौस्थ्यातिथये समुपस्थिताय कुर्वीथाः । सुदूरमपि गत्वा यदि सम्बन्धसम्बन्धिनोः कथञ्चिदैक्यमाख्यायते तदा समवायसमवायिनोरपि तदिष्यताम् । तथाच सिद्धं ज्ञानात्मनोरपि कथञ्चित्तादात्म्यम् | समवायिभ्यामभिन्नस्य समवायस्यैव तत्त्वादिति ज्ञानात्मनोः कथञ्चिदभेदप्रतीतेः कालात्ययापदिष्टो हेतुः । दृष्टान्तश्च साध्यविकलः
१ ' तस्य ' इत्यधिकं प. पुस्तके । २ ' तत्रापौरुषेयः शब्दोऽमूर्तत्वाद्दुःखवदिति' साध्यधर्मविकलदृष्टान्तः (प्र. लो. ६-६० )
"Aho Shrut Gyanam"