SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. ४] स्याद्वादरलाकरसहितः प्रदर्शकत्वमेव । एवमुपेक्षकत्वमपि तस्योपेक्षणीयार्थप्रदर्शकत्वमेव द्रष्टव्यम् । हिशब्दो यस्मादर्थे । यस्मादभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम प्रमाणमत इदं ज्ञानमेव भवितुमर्हति नाज्ञानरूपं सन्निकर्षादि । प्रयोगश्चात्र । प्रमाणं ज्ञानमेव अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमत्वात् । यत्पुनर्न ज्ञानं तन्नाभिमतवस्तुस्वीकारतिरस्कारक्षम ५: यथा सम्प्रतिपन्नं स्तम्भादि अभिमतानभिमतवस्तुस्वीकार तिरस्कारक्षमं च प्रमाणं तस्माद् ज्ञानमेव । न चात्र साधनमसिद्धम् । अभिमतवस्तुस्वीकारार्थमनभिमतवस्तुतिरस्कारार्थं च प्रार्थयन्ते प्रेक्षापूर्वकारिणः प्रमाणं । नतु व्यसनपारवश्यादिति समस्तैरपि प्रमाणवादिभिरभिमतत्वात् । अभीप्सितानीप्सितयोः समर्थं प्रदर्शकत्वेन तु भोः प्रमाणम् ॥ १० सवैरभीष्टं घटते न चेदं' ज्ञानात्मकत्वं प्रविहाय तस्य ॥ ३६ ॥३॥ उपपत्त्यन्तरमाहनवै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नं तस्यार्थीन्तरस्येव स्वार्थव्यवसितो साधकतमत्वानुपपत्तेरिति ॥४॥ १५ ___ नवै नैव । सन्निकर्ष इन्द्रियार्थसम्बन्धः स एव आदिर्यस्य कारकसाकल्यबुद्धिवृत्त्यादेस्तत्तथा तस्य । कथंभूतस्य । अज्ञानस्याचैतन्यस्वरूपस्य । प्रामाण्यमर्थयाथात्स्यव्यवस्थापित्वम् । उपपन्नं युक्तियुक्तम् । कुतः । तस्य सन्निकर्षादेः । अर्थान्तरस्येवेति अर्थः सन्निकर्षादिस्तस्मादन्यः प्रमेयो घटादिरर्थान्तरं तस्येव । स्वार्थव्यवसितौ स्वार्थयोः २० स्वपरयोर्व्यवसितिनिश्चितिस्तस्यां कर्तव्यायामित्यर्थः । साधकतमत्वस्य करणत्वस्य । अनुपपत्तेः अघटनात् । अयमत्र समुदायार्थः । यथा सम्प्रतिपन्नस्य घटादेरर्थान्तरस्याज्ञानस्वभावस्य स्वार्थव्यवसितौ साधकतमत्वाभावात् प्रामाण्यं नोपपद्यते । तथा सन्निकर्षादेरपि प्रयोगः १ चेह' इति प. पुस्तकेः पाठः । - - "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy