SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ५, ६ पुनरेवं विरचनीयः । सन्निकर्षादिर्न प्रमाणव्यवहारभाक् स्वार्थव्यवसितावसाधकतमत्वात् । यत् स्वार्थव्यवसितावसाधकतमं न तत् प्रमाणव्यवहारभाग यथोमयसम्प्रतिपन्नं घटादि । स्वार्थव्यवसितावसाधकतमश्च सन्निकर्षादिस्तस्मान्न प्रमाणव्यवहारभाक् ॥ ४ ॥ ५ साम्प्रतमस्य हेतोरसिद्धतापरिहारार्थं सूत्रद्वयमाहन खल्वस्य स्वनिर्णीतौ करणत्वं स्तम्भादेरिवाचे . तनत्वादिति ॥५॥ नाप्यर्थनिश्चितौ स्वनिश्चितावकरणस्य कुम्भादेखि तत्राप्यकरणत्वादिति ॥६॥ १० अस्येति सन्निकर्षादेः । स्वनिर्णीताविति स्वव्यवसितौ । अचेतन त्वादिति अचिद्रूपत्वात् । नाप्यर्थनिश्चिताविति अस्य करणत्वमिति प्राक्तनेन सम्बन्धः । तत्रापीति अर्थनिश्चितावपि । शेषं तु व्यक्तम् । प्रयोगयुगलं पुनरित्थमिहोपन्यसनीयम् । सन्निकर्षादिः स्वनिर्णीतौ करणं न भवति अचेतनत्वात् य इत्थं स इत्थं यथा स्तम्भादिस्तथा चाय तस्मात्तथा । सन्निकर्षादिरनिश्चिती करणं न भवति स्वनिश्चितावकरणत्वात् य एवं स एवं यथा कुम्भादिः । यथोक्तसाधनसम्पन्नश्चायं तस्माद्यथोक्तसाध्य इति । एवं च । न सन्निकर्षप्रमुखं प्रमाणमज्ञानरूपं घटते कथंचित् ।। न मुख्यतो यत्करणत्वमस्य वस्तुप्रमायां घटते कथंचित् ॥३७॥ २० अत्राहुनैयायिकाः यदभाषि सन्निकर्षादिर्न प्रमाणव्यवहारभागित्यादि तत्रादिशब्दसूचितकारकसाकल्यादीनां प्रमाणसन्निकर्षादिर्न प्रमाणव्यवहारभागिति नैयायि- व्यवहारपराकरणे वयमपि सहायाः । सन्निकर्षस्य - कमतपरीक्षणम् । तु तत्पराकरण न क्षमामहे । स्वव्यवसितावसाधकतमत्वसिद्धावप्यर्थव्यवसितावसाधकतमत्वस्य हेत्वेकदेशस्यासिद्धत्वात् । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy