SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ६४ प्रमाणनयतरवालोकालङ्कारः परि. १ सू. ३ सारहारहारिप्रियतमाप्रमुखम् । शाश्वतिकसुखसाधनं तु सम्यग्दर्शनज्ञानचारित्रस्वरूपं रत्नत्रयम् । अनभिमतं तु मुख्यं दुःखम् । तत्पुनरसद्वेद्याभिधानपापकर्मविपाके सति विरोधिद्रव्यायुपनिपातात्मनः पीडालक्षणः परिणामः। गौणं पुनरनभिमतं दुःखसाधनं विषविषधरमकरकान्ताराकूपारप्रभृतिकम् । पुरुषदशादेशकालविशेषाञ्च भावानां सुखदुःखसाधनत्वमव्यवस्थितमवधार्यम् । तथाहि यदेव दृढकठिनकलेवरस्य प्रबलजाज्वल्यमानजाठरजातवेदसः कस्यचित्पुंसः सुरभिपरिमलोद्गारसुन्दरसरससहकारफलपटलमुपयुक्तं परमानन्दसम्पदे सम्पद्यते । तदेवानवरतविवर्धमानविविधव्याधिप्रबन्धविधुरस्याधिकतरमंदीभूतौदर्यज्वलनस्य परस्य प्रौढपीडापरम्पराप्रसूतये प्रभवतीति । यदवाचि । पंचशतीप्रकरणप्रणयनप्रवीणैरत्र भवद्भिरुमास्वातिवाचकमुख्यैः । ' तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किञ्चिदिष्टं वा' इति । एवंविधयोरभिमतानभिमतवस्तुनोर्यो स्वीकारतिरस्कारौ प्राप्तिपरिहारौ तयोः क्षमं समर्थ प्रापकं परिहारकं चेत्यर्थः । अभिमतानभिमतयोरुपलक्षणत्वादभिमतानभिमतोभयाभावस्वभाव उपेक्षणीयोऽप्यत्रार्थों लक्षयितव्यः । रागगोचरः खल्वभिमतो द्वेषविषयोऽनभिमतो रागद्वेषद्वितयानालम्बनं तृणादिरुपेक्षणीयस्तस्य चोपेक्षक प्रमाणं तदुपेक्षायां समर्थमित्यर्थः । तत्र प्रापकत्वं प्रमाणस्याभिमतार्थप्रदर्शकत्वमेव । यतो नार्थदेशं पुरुषं नयत् पुरुषदेशं वार्थमानयत् प्रापकं प्रमाणमपि २० त्वर्थं प्रदर्शयदिति । अभिमतवस्तुप्राप्तिर्हि न प्रमाणपरतन्त्रा । तस्याः पुरुषाभिलाषनिमित्तकप्रवृत्तिप्रभवत्वात् । न च प्रवृत्तेरभावे प्रमाणस्य वस्तुप्रदर्शकस्वरूपो व्यापार एव न सम्भवतीति विभावनयिम् । अनुभवविरोधात् । न खलु कुमुबान्धवादौ प्रत्यक्षेण दृष्टेऽप्यप्रवर्त्तमानो लोकस्तस्याप्रदर्शकत्वमिति प्रतिपद्यते । ततः प्रवृत्त्यभावेऽपि प्रमाणस्य २५ वस्तुप्रदर्शकत्वमुररीकर्त्तव्यम् । परिहारकत्वमपि प्रमाणस्याभिमतार्थ १ सम्यग्दर्शनज्ञानचारित्राणीति रत्नत्रयम् । २ प्रशमरतिप्रकरणे गाथा ४९ । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy