________________
परि. १ सू. ३]
स्याद्वादरत्नाकरसहितः
बहिर्व्यातेरभावादनन्वयत्वम् । अन्तर्व्याप्तिस्तु सत्त्वादेरिव प्रमाणत्वस्यापि । साध्यधर्मिणि सर्वत्राऽन्वयसिद्धेः विपक्षे बाघकसद्भावाच्च । एतेन तृतीयपक्षोऽपि प्रतिक्षिप्तः । सर्वथा साधर्म्यविप्रयुक्तत्वात् कथमस्य गमकत्वमिति योगैरपि न तर्कणीयम् । केवलव्यतिरेकिणोऽपि हेतोरविनाभावनियमनिर्णयेन साध्यसाधनसामर्थ्यसद्भावात् । सात्मकं १५ जीवच्छरीरं प्राणादिमत्त्वात् । यत्तु सात्मकं न भवति तत्प्राणादिमदपि न भवति । यथा कलशः प्राणादिमञ्च जीवच्छरीरं तस्मात्सात्मकमित्यादिवत् । अनेन च विरुद्धत्वमनैकान्तिकत्वं च प्रतिक्षिप्तमवगन्तव्यम् । अन्यथानुपपत्तिस्वीकृते हेतौ तयोः सर्वथावकाशाभावात् । तस्मान्निरवद्योऽयं हेतुः प्रमाणस्य स्वपरव्यवसायिज्ञानत्वं साधयत्येव । तथा च १० नासम्भवदोषदुष्टमप्येतत् प्रमाणलक्षणमिति स्थितम् ।
:
यत्प्रावादुकलक्षणानि नयते सद्यः कथाशेषता -
मव्याप्तिप्रमुखेण न प्रतिहतं दोषत्रयेणापि यत् ॥
स्याद्वादामृतपानपूतवदनैरभ्यस्यमानं बुधैः ।
सिद्धं सम्प्रति मानलक्ष्म तदिदं श्रीमञ्जिनैर्जल्पितम् ||३५|| २ || १५ अथ प्रमाणलक्षणे ज्ञानमिति विशेषणस्य समर्थनार्थमुपपत्तिमाह
अभिमतानभिमतवस्तुस्वीकार तिरस्कारक्षमं हि प्रमाणमतो ज्ञानमेवेदम् || ३ ||
"Aho Shrut Gyanam"
४३
+
I
अभिमतमुपादेयम् । अनभिमतं हेयम् । तत् द्वितयमपि द्विप्रकारं मुख्यं गौणं च । तत्र मुख्यमभिमतं सुखम् । तदपि द्विभेदमशाश्वतिकं २० शाश्वतिकं च । तत्रार्थ बाह्यद्रव्यसम्बन्धापेक्षं सद्वेदाख्य पुण्य कर्म्मविपाकात् प्रादुर्भूतः संसार्यात्मनः प्रसादपरिणामः । शाश्वतिकं तु समस्त कर्मक्षयत: समुद्भूतो मुक्तात्मनः परमानन्दपरिणामः । गौणं पुनरभिमताशाश्वतिक1 शाश्वतिकसुखयोः साधनम् । तत्राशाश्वतिकसुखसाधनं गंधसारघन
१ 'कर्मक्लेशनिश्लेषत' इति प. पुस्तके पाठः ।