________________
४२
प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. २ प्रमाणत्वमसिद्धम् । प्रमाणसामान्ये सर्वप्रावादुकानां विवादाभावात् । अस्यानभ्युपगमे तु स्वाभिमतानभिमतसाधनदूषणयोरनुपपत्तिः । ननु यदेव प्रमाणं धर्मित्वेनात्र निरदेशि कथं तस्यैव हेतुत्वमुपपन्नमिति चेत् ।
ननु किमस्य हेतुत्वानुपपत्तौ निमित्तम् । किं धर्मित्वहेतुत्वयोर्विरोधः । ५ किं वा प्रतिज्ञार्थंकदेशत्वम् । यद्वाऽनन्वयत्वम् । तत्राद्यपक्षेऽयमभि
प्रायः । धर्माणामधिकरणं धी तदधिकरणस्तु धर्मः । ततो यद्यत्र प्रमाणं धर्मि कथं हेतुः स चेत् कथं धर्मि हेतोर्धमत्वाद्धर्मधर्मिणोश्चैक्यानुपपत्तेः । तदयुक्तम् । विशेष धमिणं विधाय सामान्य हेतुमभिदधतां दोषासम्भवात् । प्रमाणं हि प्रत्यक्षपरोक्षव्यक्तिलक्षणं धमि । प्रमाणत्वसामान्य हेतुः । ततो नात्र सर्वथैक्यम् । कथञ्चिदैक्यं तु भवदपि न धर्मधर्मिभावं विरुणद्धि । प्रत्युत तत्प्रयोजकमेव । तदन्तरेण धर्मधम्मिभावेऽतिप्रसङ्गात् । द्वितीयपक्षेऽपि साध्यधर्मधर्मिसमुदायस्य प्रतिज्ञार्थस्यैकदेशोऽत्र धर्मी हेतुतयोपात्तोऽस्ति । नच तथापि किंचिद् दूषणम् । अन्यथानुपपत्तिश्चेनिश्चिक्ये तदा प्रतिज्ञार्थंकदेशोऽन्यो वा सर्वो गमक एव । ननु प्रतिज्ञाथैकदेशोऽपि यदि गमकः स्यात्तदाऽनित्यः शब्दोऽनित्यत्वादिति अयमपि गमकतां कलयेत् । तदप्यत्याकुलम् । न खलु प्रतिज्ञार्थकदेशत्वं गमकत्वे कारणमभिदध्महे येनानित्यत्वादेरपि तत्प्रसज्येत । किन्त्वगमकत्वं गमकत्वं वा प्रति तदप्रयोजकमिति ब्रूमः । न हि धूमद्रव्यं धूमध्वज प्रति गमकमिति गगनाङ्गणोत्संगसङ्गिसमुद्धररजोराजिरपि द्रव्यत्वसद्भावाद्गमिका भवति । तद्वद्वा धूमद्रव्यमप्यगमकम् । तदिहान्यथानुपपत्तिर्गवेषणीया । सा त्वनित्यत्वे नास्ति । तस्य शब्दे प्रतिवादिनः स्वरूपासिद्धत्वादिति तदेवागमकम् । प्रमाणत्वे पुनरसौ विद्यत इति तद्गमकमेव । तृतीयकल्पेऽपि किं बहिर्व्याप्तिरन्तातिरुभयी वा तत्र
नास्तीत्यनन्वयत्वं स्यात् । नाद्यः पक्षः । सर्वं क्षणिकं सत्त्वादित्यादे२५ रप्यनन्वयत्वप्रसक्तेः । अथास्य दृष्टान्तेऽनन्वयस्यापि साध्यधर्मिणि सर्वत्रा
न्वयसिद्धेर्विपक्षे बाधकप्रमाणसद्भावाच्च निर्दोषतानुमन्यते । न तर्हि
"Aho Shrut Gyanam"