________________
परि. १ सू. २] स्याद्वादरत्नाकरसहितः नुवर्ति प्रमाणं भवति । अविकला चेत् तस्य जानका सामग्री तदा तदुत्पद्यत एव । कस्य चायं पर्यनुयोगस्त्वया विधीयते यदुत गृहीतेऽपि विषये प्रवर्तमानं प्रमाणं किं कुर्यादिति । न तावत् प्रमाणस्य । तद्धि दैवोपनतां स्वजनिकां सामग्री समासाद्य समुत्पद्यमानं वराकं कथं पर्यनुयोगभुवमवतरेत् । नापि प्रमातुः तस्यापि च सति योग्ये गोचरेऽभिमुखीभूतेषु करणेषु ५ भूयोऽपि प्रादुर्भवन्त्येष संवेदनानीति सोऽपि तपस्वी किमित्थमुपलभ्यताम् ।
किमिति पश्यास वस्तु तदेव भो
यदिह पूर्वधिया कलितं किल । किमिति वस्तुनि सन्निहितेऽपि च
त्वमसि नैव निमीलितलोचनः ॥ २५ ॥ अपि च पुनः पुनः प्रमाणानां प्रवृत्तौ विषयेष्विह । सर्वथा नास्ति वैयर्थ्य फलस्याप्युपलम्भनात् ॥ २६ ॥ तथाहि हालाहलजिह्मगादौ हेये मुहुर्वस्तुनि वीक्ष्यमाणे ॥ स कोऽपि तापः स्फुरति प्रकामं न गोचरं यो वचसामुपैति ॥२७॥ १५ निरीक्ष्यमाणे परमार्थतस्तु हेये मुहुर्मोहविकारमुख्ये ॥ विवेकसेकप्लुतमानसानामरोचकस्तीत्रतरोऽभ्युदेति ॥ २८ ॥ प्रेयस्विनीपार्वणशीतरोचिर्मयूरमाणिक्यमुखे त्वजनम् ॥ आदेयवस्तुन्यवलोक्यमाने सम्प्राप्यते प्रीतिरसः स कोऽपि ॥२९|| तत्त्वतस्तु सुधियामभीप्सिते तीर्थनाथपदपङ्कजद्वये ॥ याति दर्शनपथं मुहुर्मुहुः प्रीतिसम्पदमुपैति मानसम् ॥ ३० ॥ ततश्च तस्मिन् हृदयैकशूले कामं तथान्तःकरणानुकूले ॥ हानार्थमादानकृते च सद्यः सञ्जायते प्राणभृतां प्रवृत्तिः ॥ ३१ ॥
१' तद्विदा' इति प.भ. पुस्तकयोः पाठः । २ द्रुतविलम्बितम् ।
"Aho Shrut Gyanam"