________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. २ तयापि प्रमाणलक्षणनिर्वहणमिति महत्कैतवम् । अविद्यावासनानिर्मितश्च न ग्राह्यग्राहकादिव्यवहारः । किन्तु तात्त्विक एवेति ज्ञानाद्वैतविघटनप्रघट्टके प्रकटयिष्यते । यदि चापरमुत्तरप्रकारमनवधारयद्भिः
सांवृत एव सन्तानः परिकल्प्यते । हन्त तार्ह नैयायिकादिसम्मता ५ जात्यवयविसमवायप्रभृतयोऽपि संवृतिनिर्मितमूर्तयः किमिति न परि
कल्प्यन्ते । वृत्तिविकल्पादिबाधकविधुरीकृतत्वादिति यदि मतं तर्हि भेदादिविकल्पैः सन्तानस्य प्रतिहन्यमानत्वात् तत्रापि तुल्यः पन्थाः । एवं च सति । विसंवादापेतं यदिह किमपि ज्ञानमखिलम् ।
प्रमाणं तद्वौद्धैरभिहितमिदं तु प्रतिहतम् ।। अविज्ञातज्ञानं त्वभिदधति भट्टस्य तनयाः ।
__ प्रमाणं तत्सम्प्रत्यवतरतु दूष्यत्वपदवीम् ॥ २४ ॥ तथा हि अनधिगतार्थाधिगन्तृत्वं प्रमाणस्य किमभिधीयते ।
अनधिगतार्थाधिगन्तत्वं प्रमाणान्तरेणानधिगतस्यार्थस्य यदधिगन्तत्वं तदि१५ प्रमाणस्येति भाट्टम- ति चेत् ननु प्रमाणान्तरं परकीयं स्वकीयं वा ।
तस्य खण्डनम् । यदि परकीयम् तदा साधयिष्यमाणसर्वज्ञज्ञानस्य समस्तवस्तुविस्तारगोचरतया तदधिगतार्थाधिगन्तृत्वात् निखिललौकिकज्ञानानामप्रामाण्यं प्रसज्येत । देवदत्तज्ञानस्यापि यज्ञदत्तादिप्रमाणप्रतिपन्नार्थग्राहित्वादप्रमाणत्वं स्यात् । अथ स्वकीयं तदपि न साम्प्रतम् । प्रमाणस्य गृहीततदितरगोचरप्रवृत्तस्य प्रामाण्यं प्रति विशेषानुपलक्षणत्वात् । अथ गृहीते गोचरे प्रवर्त्तमानं प्रमाणं किं कुर्वीत । नन्वगृहीतेऽपि कि कुर्वीत । अज्ञाननिवर्त्तनमिति चेत् गृहीतेऽपि तदेव कुरुताम् । कृतस्य करणायोग इति चेत् मैवम् । अज्ञानविनिवर्त्तनान्तरकरणात् । पुनरज्ञान
निवर्तनस्य किं फलमिति चेत् । आयुष्मन्नज्ञानविनिवर्तनं स्वयमेव फलं २५ न च फलस्यापि फलमन्वेषणीयम् । तदविरामप्रसक्तेः । न च प्रयोजना
१ शिखरिणी।
२०
"Aho Shrut Gyanam"