________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. २ यदप्यदः प्रतिपाद्यते कुमारिलेन 'यत्रापिस्यात्परिच्छेदः 'यत्रापि स्यात्परिच्छेद' माणस. उन । न त इति कुमारिलकारिकाया सोऽर्थो नावधृतस्तथा ॥१॥' इति तदपि
उद्भावनपूर्वकं निराकरणम्ान मनोरमम् । यतो नोत्तराणि प्रमाणान ५ मानानि सर्वात्मनाप्यपूर्वमेवार्थ परिच्छिन्दन्ति । अथापूर्वस्यापि तस्य
तत्र परिच्छेदो विद्यत एव । तथा ह्यनुमानेन वह्निमात्रमन्वमायि प्रत्यक्षण तु ज्वालाकलापशालित्वादिविशेषविशिष्टो वहिर्निश्चीयत इति चेत् । एवं तर्हि यथानधिगतान् विशेषानिदं परिच्छिन्दत्प्रमाणमेव तथाधिगतं
वह्नित्वमपि परिच्छिन्ददप्रमाणमेव किन्न भवेत् । किंच यदि शतकोटि१. स्फटिकमालोक्य कतिपयकालकलाविलम्बादूर्वं यथास्थितमेव यदा
कलयति तदा तत्प्रत्यक्षस्य कुतः प्रामाण्यं स्यात् । अननुभूयमानस्यापि विशेषाकलनस्य तत्र कल्पने धारावाहिष्वपि तत् कल्पनास्तु । अथ तत्कालावस्थितत्वविशेषप्रतिभासः स्फुट एव तत्रास्ति । नन्वसौ धारा
वाहिष्वपि तथैवास्ति ततस्तान्यपि प्रमाणानि स्युः । अथ प्रमाणान्येव १५ तान्यनधिगतेऽशेऽधिगतांश एव प्रामाण्यप्रतिषेधादिति चेत् । तदचारु ।
गृहीतागृहीतांशयोः प्रवर्त्तमानस्य प्रमाणस्य प्रामाण्य प्रति विशेषाभावात् । ननु यदि गृहीतेऽपि गोचरे प्रमाण प्रवर्तते तर्हि तत्र तस्य प्रवृत्त्यविरामः प्रसज्येत । नहि तद्विरमणे काश्चन सीमानं जानीमहे । अज्ञानविनि
वर्तनाख्यस्वफलोत्पादस्वसीमा त्वतिक्रान्तैवानेन । अत्राभिधीयते । २० नयनादिकरणानां गोचरान्तरव्यापारतो वा प्रमातुः परिश्रमतो वा
स्वसामग्रीपरिभ्रंशतो वा प्रमाणस्य विरतेः सम्भवान्नाविरतिप्रसक्तिः । न चानवस्थाप्येवंविधा मूलबाधाविधायिनी । न ह्युत्तरसमयसम्भविविज्ञानपरम्परासमुत्पादमन्तरेण प्राचीनविज्ञानसमुत्पत्तिाध्यते । तस्मादविराम
.. १ एकस्मिन्नेव घटे ‘घटोऽयं घटोऽयम् । इत्येवमुत्पद्यमानमुत्तरोत्तरज्ञानं धारावाहिकज्ञानम् ।
"Aho Shrut Gyanam"