________________
प्रमाणनयतत्त्वारोकालङ्कारः [परि. १ स. २ प्रमाणमविसंवादिविज्ञान- तथाहि ते प्राहु:-प्रमाणमविसंवादिविज्ञानमिति । मिति बौद्धमतस्य प्रस्थाप-अविसंवादकत्वं चार्थप्रापकत्वमुच्यते। तच्च प्रत्यक्षा. नपूर्वक खण्डनम् । नमानयोरुभयोरप्यस्तीति सामान्यलक्षणम् । तत्र प्रत्यक्षस्य स्वप्रदर्शितस्वलक्षणक्षणस्य क्षणिकत्वेन प्राप्त्यसम्भवेऽपि तत्सन्तानप्रातः सम्भवात् सन्तानाध्यवसायजननमेव प्रापकत्वम् । द्विविधो हि प्रत्यक्षस्य विषयो ग्राहोऽध्यक्सेयश्च । तत्र ग्राहक्षण एकः सकलसजातीयविजातीयव्यावृत्तः । स्वलक्षणाख्यस्य तत्र परिस्फुरणात् । इदमेव ग्राह्यत्वमर्थस्य यत् स्वाकारज्ञानजनकत्वम् । इदमेव च ग्राहकत्वं ज्ञानस्य यदाकारतयात्मलाभः । अध्यवसेयः पुनः सन्तानः । बहवश्व स्वलक्षणलक्षणा उपादानोपादेयभावमापन्नाः संतानः । तस्य चाध्यवसेयत्वमगृहीतस्यापि प्रवृत्तिविषयत्वम् । अध्यक्सेयार्थसन्तानापेक्षयैव च प्रत्यक्षस्य प्रामाण्यव्यवस्था स्वलक्षणस्य प्रापयितुमशक्यत्वात् । सन्तानश्चाध्यक्सीयतेऽपहर्तुमशक्यत्वात् । इति सन्तानाध्यवसायापेक्षं प्रत्यक्षे सर्वत्र प्रामाण्यव्यवस्थापनं न ग्रहणापेक्षम् । तस्मात् सन्तानाध्यवसाये सत्यविसंवादकत्वेन प्रत्यक्षस्य प्रामाण्यम् । ननु निर्विकल्पकत्वात् प्रत्यक्षस्य कथं तेन सन्तानाध्यवसायः सम्भवति । उच्यते । प्रत्यक्षजन्यविकल्पेन सन्तानस्याध्यवसितत्वात् प्रत्यक्षेणाध्यवसितः स इत्यभिधीयते । अनुमानस्य पुनरपारमार्थिकसामान्यविषयतया भ्रान्तत्वेऽपि प्रणालिकया मूलवस्तुलक्षणप्रभवत्वान्मणिप्रभायां मणिबुद्धिरिव वस्तुप्राप्त्या प्रापकत्वम् । यतस्तस्यापि ग्राह्याध्यवसेयतया विषयो द्विविधः । तत्राध्यवसेयं स्वलक्षणम् । समुत्पन्नेऽनुमानेऽध्यवसायादर्थक्रियाकारिणी स्वलक्षण एव प्रमातुः प्रवृत्त्युपलब्धेः । ग्राह्यस्तु विषयोऽस्य सामान्यमेव । तत्पुनर्बहिस्तादात्म्येनाध्यवसीयमानो बुद्ध्याकारो वा । अलीकबाह्यं वाऽन्तर्बही
रूपम् । परमार्थतस्तु न कश्चिद्नुमानस्य विषयः । तथाहि न स्व२५ लक्षणं तत्र तस्यापरिस्फुरणात् । न बुद्धयाकारः बहिस्तादात्म्येन
तस्यासम्भवात् । नायलीकबाह्यम् । तस्य सर्वथाप्यसम्भवेनार्थक्रियासामर्थ्यशन्यत्वतः करिकेसरकलापकल्पत्वादिति निर्विषयमनुमानम् ।
"Aho Shrut Gyanam"