________________
परि. १ सू. २] स्याद्वादरत्नाकरसहितः व्याप्रियते । प्रमेयस्य तु प्रत्यक्षादन्यत्रोपलब्धिहेतुभाव एव तावन्नास्ति । केवलं प्रमाणविषयमात्रेणोपयुज्यते । यत्राप्यस्य हेतुभावः प्रत्यक्षेऽभिप्रेयते तनापीन्द्रियसंबन्धमात्रे उपयुज्यते प्रमेयम् । इन्द्रियमेव तु तत्सन्निकर्षादि वा साक्षात् प्रमाहेतुः । तत्सिद्धमेवं न प्रमाता साक्षात् प्रमाहेतुः कर्तृत्वाद्यो यः कर्ता स सर्वो न साक्षात्फलहेतुर्यथा व्रश्चनय- ५ जमानादिस्तथा चायं तस्मात्तथा । तथा प्रत्यक्षं प्रमेयं न प्रमाहेतु: प्रमेयत्वाद्यद्यत्प्रमेयं न तत्सर्वं प्रमाहेतुरनुमेयादिवत्तथा चैतत्तस्मात् तथेति । तदिदं प्रमातृप्रमेययोः प्रमाणे चरितार्थत्वं फले च प्रमाणस्य । तस्मात्तदेव फलहेतुः । प्रमातृप्रमेये तु फलोद्देशेन प्रवृत्त इति तद्वकथञ्चिदिति । अत्रोच्यते सकलस्थाप्येतत् प्रयासस्येदमेव फलं यदि- १० न्द्रियसन्निकर्षादिकमनन्तरमर्थप्रतिपत्तिनिमित्तं तदेव प्रमाणं न व्यवहिते प्रमातृप्रमेये इति अनुपपन्नं चैतत् । यतो हेतुशब्दमात्रोक्तावपि यः साक्षादुपलब्धौ हेतुरिन्द्रियादि स एव चेत् प्रमाणतयाभिप्रेतः सूक्ष्मदर्शिनोऽस्य तदा स्वपरव्यवसायिज्ञानमेव तयाभ्युपगन्तुमुचितम् । वस्तुपरिच्छित्तिरानन्तर्येण तत एव भावात् । यथा च ज्ञानरूपादपि १५ प्रमाणाद्वस्तुपरिच्छित्तिः फलं कथञ्चिद्भिद्यते तथा फलपरिच्छेदे निश्चेष्यते । भवतश्चात्र श्लोको । अर्थोपलब्धेर्यदि साधनस्य प्रमाणतां वक्षि विचक्षण त्वम् । तदा प्रमात्रादिषु तत्प्रसक्त्या जज्ञे सुभिक्षं भवतः प्रमाणैः ॥ २० ॥ अथापि यत्सन्निहितं तदेव प्रमाणमाख्यासि हृषीकमुख्यम् । २० त्यक्त्वा तदानी स्वमताभिमानं ज्ञानं प्रमाणं वद निर्विवादम् ॥ २१॥ भिक्षवो लक्षणं यत्समाचक्षतेऽध्यक्षमुख्यप्रमाणस्य साधारणम् । तद्विसंवादवैकल्यरूपं स्फुटं वर्ण्यमानं सकणेः समाकर्ण्यताम् ॥ २२ ।।
१ भुजङ्गप्रयातम् ।
"Aho Shrut Gyanam"