________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ स. २ ज्ञानवादिनां नैयायिकवैशेषिकाणां प्रधानविवर्तत्वेनाचेतनज्ञानवादिनां कापिलानां च मतमपाकर्तुं स्वशब्दसंशब्दनम् ।
संपूर्ण प्रमाणलक्षणवाक्यं पुनः परपरिकल्पितस्यार्थोपलब्धिहेतुत्वस्यासम्पूर्णप्रमाणलक्षणे पदक- विसंवादकत्वस्यानधिगतार्थाधिगन्तृत्वादेश्व प्रमात्यप्रदर्शनम् । णलक्षणताप्रतिक्षेपार्थम् । तथाहि ।
आचक्षते लक्षणमक्षपादपक्षे सदाऽक्षुण्णनिबद्धकक्षाः।
सर्वप्रमाणानुगुणं यदत्र क्षणं तदेतर्हि विचारयामः ॥ १९ ॥ 'अर्थोपलब्धिहेतुः प्रमाणम्' इति तत्पक्षः । स न परीक्षां क्षमते ।
____ प्रमातृप्रमेययोरपि द्रोणकुसुमरसनिषेकसौवीरा: प्रमाणलक्षणे न्यायमतस्य खण्डनम् ।
पञ्जनशरीराहारादेरपि चार्थोपलब्धिहेतुत्वेन प्रमा
णताप्रसंगात् । अत्राह वाचस्पतिः, सर्वः कर्ता करणगोचरव्यापारो न तु
__ साक्षात्फले व्याप्रियते । करणं च द्वेधा सिद्धमवाचस्पतिमतखण्डनम् । सिद्धं च । तत्र सिद्धं परश्वधादि दारुद्वैधी१५ भावायोद्यम्योद्यम्य दारुणि निपातयन् दारु च्छिनत्तीत्युच्यते । न तु
साक्षात्कर्तृव्यापारगोचरो दारुद्वैधीभावः। किन्तु स्पर्शवद्वेगक्तः करणीभूतस्य परशोः संयोगोद्यमननिपातलक्षणस्तु कर्तृव्यापारः परशुगोचर एव । एवं स्वर्गकामोऽपि कर्ता न साक्षात् स्वर्गे व्याप्रियते । किन्तु तत्करणं यागमसिद्धं साधयति । स्वर्गस्तु यागव्यापारादेवापूर्वाभिधानाचेतनाश्रयोदेशकालव्यवस्थाभेदासादितपरिणतिविशेषात् साक्षादुत्पद्यते । तद्वदिहापि प्रमाता सिद्धमिन्द्रियाद्यसिद्धं वा तत्सन्निकर्षादि व्यापारयन्नुत्पादयन्वा करण एव चरितार्थः । करणं विन्द्रियादि तत्सन्निकर्षादि वा नान्यत्र चरितार्थमिति साक्षादुपलब्धावेव फले
१ उपजातिः । २ गौ. स. पृ. ९४ पं. ४ 'उपलब्धिहेतुश्च प्रमाणम्' इति । ३ अन प्रमाणं सुश्रुतादिषु ।
"Aho Shrut Gyanam"