SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ परि. १ स. २] स्याद्वादरत्नाकरसहितः स्यास्त्येव । सजातीयार्थकरणमर्थक्रियेति चेत् सापि सदृशपरिणामस्यास्ति विसदृशपरिणामस्येव । सदृशेतरपरिणामात्मकाद्धि बालपादपात् सदृशेतरपरिणामात्मक एव तरुणपादपः प्रादुर्भवन्नुपलभ्यते । तत्र यथा विसदृशपरिणामाद्विशेषाद्विसदृशपरिणामस्तथा सदृशपरिणामात् सामा- .. न्यात् सदृशपरिणाम इति । सजातीयार्थकरणमर्थक्रिया सिद्धा सामा- . ५ न्यस्य विशेषतश्चैतद्विषयपरिच्छेदे निश्चेष्यते । ततो वस्त्वेवे सामान्य विशेषवत् तत्र च प्रवर्त्तमानो विकल्पो वस्तुनिर्भासः संवादकत्वादनुपप्लव एव प्रत्यक्षवत् । तादृशाच्च विकल्पाल्लक्ष्यलक्षणभावो व्यवस्थाप्यमानो न बुद्धयारूढ एव । यतः सांवृतः स्यादिति सिद्धः पारमार्थिको लक्ष्यलक्षणभाव इति । इदानीमक्षरार्थः । तत्र प्रमाणमिति पूर्ववन्निर्वचनीयम् । स्वमात्मा ... ज्ञानस्यैव स्वरूपमित्यर्थः । परः स्वस्मादन्यः स्वपरव्यवसायिज्ञानमिति MATH अर्थ इति यावत् । तौ व्यवस्यति यथावस्थि 'तत्वेन निश्चिनोतीत्येवं शीलं यत्तत्स्वपरव्यवसायि। ज्ञायते बुद्धयते वस्त्वनेनेति ज्ञानं प्राधान्येन विशेषग्राहको बोधः। १५ इह च व्यवच्छेद्यापेक्षया लक्षणविशेषणप्रवृत्तिरिति ज्ञानमिति प्रमाणस्य विशेषणमज्ञानस्वभावस्य व्यवहारानंगस्य सन्मात्रगोचरस्य स्वसमय. प्रसिद्धस्य दर्शनस्य सन्निकर्षकारकसाकल्यादेश्व नैयायिकादिपरिकल्पितस्य प्रामाण्यप्रतिषेधार्थमुपन्यस्तम्। ज्ञानस्यापि स्वसंवेदनेन्द्रियजमानसयोगिप्रत्यक्षरूपतया चतुर्विकल्पस्य निर्विकल्पतया प्रामाण्यं यत्ताथा- २० गतैः पर्यकल्पि तन्निरासार्थ सन्देहविपर्ययानव्यवसायानां प्रमाणतापरिहारार्थं च व्यवसाथिपदोपादानम् । पारमार्थिकबाह्यार्थापलापिनां विज्ञानाद्यद्वैतवादिनां मिथ्याभिनिवेशव्युदासाथ परपदप्रणयनम् । नित्यपरोक्षबुद्धिवादिनां मीमांसकानामेकार्थसमवाविज्ञानान्तरप्रत्यक्ष १ 'वस्तुवत् इति प. भ. पुस्तकयोः पाठः। "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy