________________
३
प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. २ सिद्धस्तर्हि बौद्धो लक्ष्यलक्षणभावस्तद्वबौद्धोऽपि किं न सिध्येत् । विकल्पाबहिर्भूतस्य तस्यासम्भवादिति चेत् । न तस्यासम्भवे तादृन्विकल्पविषयत्वायोगात् । न च सकलो विकल्पविषयोऽसम्भवन्नेव । सम्भवतोऽपि विकल्पविषयत्वोपपत्तेः प्रत्यक्षविषयवत् । सर्वो विकल्पोऽसम्भवद्विषयो विकल्पत्वात् मनोराज्यादिविकल्पवदिति चेत् । सर्वं प्रत्यक्षमसम्भवद्विषयं प्रत्यक्षत्वात् केशोन्दुकप्रत्यक्षवदिति किं न स्यात् । प्रत्यक्षाभासोऽसम्भवद्विषयो दृष्टो न प्रत्यक्षमिति चेत् । तर्हि विकल्पाभासोऽसम्भवद्विषयो न विकल्प इति समानः परिहारः । कः पुनः सत्यो विकल्पः प्रत्यक्षं किं सत्यमिति समः पर्यनुयोगः । यतः प्रवर्त्तमानोऽर्थक्रियायां न विसंवाद्यते तत्सम्यक्प्रत्यक्षमिति चेत् । यतो विकत्पादर्थ परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते स सत्य इति किं नानुमन्यसे । किं पुनर्विकल्पस्यार्थपरिच्छेदकत्वं प्रत्यक्षस्य किमिति वाच्यम् । अविचलितस्पष्टार्थावभासित्वमिति चेत् । कस्यचिद् विकल्पस्यापि तदेव कस्यचित्तु बाधकविधुरास्पष्टार्थावभासित्वमपीति मन्यामहे । अस्पष्टोऽर्थ एव न भवतीति चेत् कुतस्तस्यानर्थत्वम् । पुनरस्पष्टतथाऽनवभासनादिति चेत् स्पष्टोऽप्येवमनर्थः स्यात् पुनः स्पष्टतयाऽनवभासनात् यथैव हि दूरात्पादपादिसामान्यमस्पष्टतया प्रतिभाति पुनर्निकटदेशवर्तितायां तदेवास्पष्टं न प्रतिभाति तद्विशेषस्य तदा प्रतिभासनात्
तथैव सन्निहितस्य विशिष्टं पादपादिरूपं स्पष्टतया प्रतिभातं पुनर्द्वरतर२० देशवर्तितायां न तदेव स्पष्टं प्रतिभासते । यदि पुनः सन्निहितज्ञानग्राह्य
मेव तद्रूपं विशिष्टमिति मतिस्तदा दविष्ठादिज्ञानग्राह्यमेव तद्रूपं सामान्यमिति किं न मतम् । यथा च विशिष्टं पादपादिरूपं स्वार्थक्रियां निवर्तयति तथा पादयादिसामान्यरूपमपि प्रतिपत्तुः परितोष
करणं हि यद्यर्थक्रिया तदा तत्सामान्यस्यापि सा समस्त्येव कस्यचित्ता२५ वता परितोषात् । अथ स्वविषयज्ञानजनकत्वमर्थक्रिया तदपि सामान्य
१ केशोन्दुकं केशग्रन्थिः।
"Aho Shrut Gyanam"