________________
परि. १ सू. २ ]
स्याद्वादरत्नाकर सहितः
प्रसिद्धमप्रसिद्धं वा सल्लक्ष्यस्य प्रज्ञापकं भवेत् । प्रसिद्धं चेत् तदा कुतस्तत्प्रसिद्धिः । स्वकीयलक्षणादिति चेत् तर्हि तस्यापि प्रसिद्धिः स्वकीयलक्षणान्तरादित्यनास्था । अथ गत्वापि सुदूरं स्वरूपत एव कस्यापि लक्षणस्य प्रसिद्धिः स्वीक्रियते तर्हि न सकलं भिन्नमेव लक्षणस्य स्वात्मभूतलक्षणत्वात् । अथाप्रसिद्धं लक्षणमाख्यायते नन्वेकान्तेन कथंचिद्वा । न तावदेकान्तेन अतिप्रसङ्गपराहतत्वात् । अथ कथंचिदप्रसिद्धं लक्षणमुच्यते शब्दार्थमात्रेण हि प्रसिद्धं लक्षणं विवक्षितलक्ष्यास्पदत्वेन त्वप्रसिद्धमिति । सत्यमेवमेतत् । किन्तु लक्ष्यादेकान्तेन लक्षणस्य पार्थक्येऽतिप्रसङ्गो दुष्परिहर एव । विन्ध्यमहीधरन्धवतिदूर्वा पल्लवतानामपि तथाभूतानां विवक्षितलक्ष्यं प्रति लक्षणत्व- १० प्राप्तेः । अस्तु तर्ह्यभिन्नमेव लक्ष्याल्लक्षणमाशुशुक्षणे रौष्ण्यवदिति चेत् । अयमपि न प्रमाणपरतन्त्रस्योल्लापः । नियमहेत्वभावेन विपर्ययस्यापि प्रसक्तेः । तादात्म्याविशेषेऽपि पावकोष्णयोरौष्ण्यमेव पावकस्य लक्षणं न पुनरभिरौष्ण्यस्येति हि कुतस्त्या नियतिः । अप्रसिद्धत्वादयं कृष्णवर्त्मनो लक्षणमिति चेत् तत्किं कृष्णवर्त्मापि १५ महात्मा नोऽप्रसिद्धः । एवमिति चेत् । अहह महासाहसिकत्वं ते यच्चाक्षुषप्रत्यक्षोपलक्ष्यमप्याशुशुक्षणिमप्रसिद्धं ब्रवीषि । प्रसिद्ध एवायं धर्ममात्ररूप इति चेत् कथं तर्हि दहनौष्ण्ययोस्तादात्म्यं समर्थयिष्यते । प्रसिद्धाप्रसिद्धयोः सर्वथा तादात्म्यविरोधात् । ततः कथंचिद्भिन्नयोरभिन्नयोश्च लक्ष्यलक्षण भावप्रतीतिसद्भावात् सर्वथा विरोधाभावात् । २० अन्यथा लक्ष्यलक्षणभावशून्यतापत्तेः ।
३१
संवृत्त्या लक्ष्यलक्षणभाव इति चेत् केयं संवृत्तिर्नाम | उपचार संवृत्त्या लक्ष्यलक्षणभाव इति चेत् अस्ति तर्हि मुख्यः क्वचिल्लक्ष्यलक्षण- इति मतस्य खण्डनम् । भावः। क्वचिन्मुख्यस्यासत्तायामुपचारस्याप्रवृत्तेः ।
तथा विकल्पस्य सद्वेिषय
कत्वव्यवस्थापनम् । विचारतोऽनुपपद्यमाना विकल्पबुद्धिः संवृत्तिरिति २५ चेत् कथं तया लक्ष्यलक्षणभावः । तस्य तत्रावभासनादिति चेत् ।
" Aho Shrut Gyanam".