________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. २ त्यादिनोक्तमेवैतदित्यन्तेन समाहितम् । तत्सर्वं लक्ष्यविधिसिद्धयेऽपि शक्यानुसन्धानम् । तथाहि सेयमन्याऽप्रसिद्धिर्या लक्ष्यत्वविधानावसरे उपयुज्यतेऽन्या च सा प्रसिद्धिर्या लक्षणावबोधनाय । शब्दार्थमात्रेण हि ज्ञातं सल्लक्ष्यत्वेन विधातुं शक्यम् । अत्यन्ताप्रसिद्धस्य लक्ष्यत्वेन विधातुमशक्यत्वात् । नतु तया प्रसिद्धथा विधेयतासामर्थ्यायातं तत्पद. परामर्शनीयत्वमस्य निवर्त्तते । तस्य तु या लक्षणावबोधनाय व्यापारणा सा अन्या प्रसिद्धिर्यासौ लक्षणवाक्याल्लक्ष्यत्वेनावगतौ सत्यां प्रमाणं चैतदित्येवं तदनुसन्धानरूपा तत्रास्यानूद्यमानता । स ह्यस्य
व्यवहारकाल इति । यदपि प्रत्यपादि यः कुण्डली स देवदत्त इत्यादि। २०. तदपि तत्रापि हि वाक्यान्तर इत्यादिना निवेदितोत्तरप्रायम् ।
अथान्यच्चिन्त्यते द्विविधं लक्षणमात्मभूतं अनात्मभूतं च । तत्रात्मलक्षणं द्विविधमात्मभूतम- भूतं लक्षणमाशुशुक्षणेरोष्ण्यवत् । अनात्मभूतं नात्मभूतं चेति व्यवस्था- तु देवदत्तस्य दण्डवत् । तत्रेह प्रमाणस्य स्वपर
व्यवसायिज्ञानमात्मभूतं लक्षणं लक्षणीयम् । १५ अत्राह कश्चित् । नन्वेवं लक्ष्यलक्षणयोस्तादाम्यादप्रसिद्ध लक्षणे
लक्ष्यस्याप्यप्रसिद्धत्वात् कस्य लक्षणं लक्षणीयम् । लक्ष्यलक्षणयोस्तादात्म्यमिति मतखण्डनम् । प्रसिद्ध वा लक्ष्ये लक्षणस्यापि प्रसिद्धत्वान्निष्प्रयो
जनं तदभिधानमिति । तदचतुरस्रम्, लक्ष्यलक्षणयोः सर्वथा तादात्म्यस्यासिद्धत्वात् कथंचित्तादात्म्यस्य तु प्रसिद्धयप्रसिद्धी प्रत्यनैकान्तिकत्वात् । क्षयोपशमभावाभावयोरेव तत्र कारणत्वात् । अथाभिदधीथाः सर्वथा भिन्न लक्ष्याल्लक्षणं दण्डवदिति। नैतदवितथं अनवस्थापत्तिदुःस्थत्वात् । तथा हि सर्वथा पृथग्भूताद्विवक्षितलक्षणाल्लक्ष्यं कथं सिद्धयेत् । लक्षणान्तराच्चेत् तदपि यद्य
मुष्मादेकान्तेन पृथग्भूतं तदा लक्षणान्तरादेव लक्ष्यं सिध्येदिति अन२५ वस्था । सुदूरमपि गत्वा यद्यपृथग्भूताल्लक्षणात् कुतश्चिल्लक्ष्यसिद्धिरभि
धीयते तर्हि न सर्व लक्षणं लक्ष्याद्भिन्नमेव । तथैकान्तपृथग्भूतं लक्षणं
' पनम् ।
"Aho Shrut Gyanam"