SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ परि. १ सु. २] स्याद्वादरत्नाकरसहितः इत्यादौ 'खलेवाली भवेन्मेधिः । इत्यादौ लोहितोष्णीषा रुत्विजः संचरन्तीत्यादौ च व्यास इति, राम इति, सूर्याचन्द्रमसाविति, शास्त्राणीत्यादेः, ऋत्विज इत्यादेश्वांशादनुवाद्यादपि साध्य. विभक्तिः प्रथमा प्रसिद्धैवेति । यथा चात्रामीषामंशानामनुवाद्यत्वं पूर्वत्र च तत्तदंशानां विधेयत्वं तथा श्रीमदम्बाप्रसादसचिवप्रवरेण ५ कल्पलतायां तत्सङ्केते कल्पपल्लवे च प्रपञ्चितमस्तीति तत एवावसेयम् । अपि च भवदभिप्रायेण 'प्रत्यक्षं कल्पनापोढम्' इत्यत्रापि प्रत्यक्षमिति लक्ष्यांशात् सिद्धादपि साध्यविभक्तिर्दृश्यत एव । भवान् पुनस्तस्मात् सिद्धविभक्तिमेवामस्त तत् 'यस्यामेव शाखायां स्थितस्तामेव छिनत्ति' इति नीतिं नातिवर्त्तते । अथ कथितमपि १० कथं नानुसंधत्से अभ्यधिष्महि यदा लक्षणमिति अयमाशयो यथा शिखया परिव्राजक इत्युक्तेऽपि परित्राजकस्य शिखा लिङ्गमिति वाक्यान्तरार्थ एवोपप्लवते तथेहापि प्रत्यक्षं कल्पनापोढमित्याधुक्तेऽप्यस्य प्रत्यक्षस्य लक्ष्यस्येदं कल्पनापोढत्वादि लक्षणमिति चेत् । अत्र पर्यनुयुमहे महोपाध्यायम् । तत्रापि हि वाक्यान्तरे कस्ते १५ समाश्वासः । शक्यमेव ह्येवं वक्तुं यथा परिव्राजकस्य शिखा लिङ्गमित्यत्र शिखया परिव्राजको लक्ष्य इत्यादिक्यान्तरार्थ एवोपप्लवते तथा प्रत्यक्षस्य कल्पनापोढत्वादि लक्षणमित्यत्रापि कल्पनापोढत्वादिना प्रत्यक्षं लक्ष्यत इति कल्पनापोढत्वादिलक्षणस्य प्रत्यक्षं लक्ष्यमित्यादिः । नहि किमप्यस्ति तद्वाक्यं यस्य वाच्यं न वाक्यान्तरेणावतारायितुं शक्यत इत्यभिमतविपरतिव्यवस्थानवस्था च दुर्निवारा भवेदिति । एवं च तिमिराशुभ्रमणेत्यादिव्याख्यावाक्यानां व्यत्ययेनार्थं समर्थयमानो निवारणीयो विपश्चिदिति । यत्तु यत्तूच्यते कथमप्रसिद्धस्य लक्षणत्वमित्याद्याशक्य सेथमन्याऽप्रसिद्धिर्या लक्षणत्वे १ व्युत्पत्तिसमयस्तदा' इत्यधिकं प. पुस्तके । २ 'परिव्राजको लक्ष्यत इति.. शिखायाः' इत्यधिकं प. पुस्तके । ' ३ लक्षणश्चे ' इति प. पुस्तके पाठः। "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy