SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. २ व्यापारणायाः प्रसिद्धेः । यथा हि मोहमहापिशाचपारवश्यात् स्वपरव्यवसायिज्ञानस्य प्रमाणत्वे विपर्ययसंशयानध्यवसायाः कस्यचित् प्रादुःप्यन्तीति तं प्रति तत्प्रतिक्षेपाय विवादास्पदं ज्ञानं मानं स्वपरव्यवसायित्वादित्येवमनुमानमारभ्यते । तथा तत एव प्रमाणस्य स्वपरव्यवसा५ यिज्ञानत्वे कस्यचित्ते समुत्पद्यन्त इति । तदपनोदाय विवादाधिकरणं प्रमाणं स्वपरव्यवसायिज्ञानं प्रमाणत्वादित्येवमपि तदवश्यमुपदेश्यम् । तथा हि ताथागताः केचन कलशादिप्रत्यक्षसंवेदनं प्रमाणतया प्रतिपधन्ते न च स्वपरव्यवसायितया । तन्मते प्रत्यक्षस्य व्यवसायशून्यत्वात् परस्य चाप्रामाणिकत्वेनापारमार्थिकत्वात् । ततश्चैते तस्मिन् ज्ञाने स्वैक१० ज्ञापकतया निर्व्यवसायतया च प्रत्यवस्थिताः सन्तः प्रतिपादितानुमानेन स्वपररूपोभयार्थज्ञापकत्वं कथञ्चिद्व्यवसायं च प्रतिपादनीयाः येऽपि रैकव्यवसायिज्ञानमानिनो नैयायिकादयस्तानपि प्रतिपादितानुमानेनैव स्वपव्यवसायित्वं सिद्धिपद्धतिमारोपणीयम् । तथा कदाचिल्लक्षणांशसिद्धथे लक्षणांशस्यैव व्यापारणा यथा ज्ञानं स्वव्यवसायि परव्यवसायित्वान्यथानुपपत्तेरिति । यच्च यदा तु व्युत्पत्तिसमयस्तदेत्यादि । तदपि नावदातम् । यतो विप्रतिपत्तिप्रतिक्षेपाय लक्षणं प्रणीयत इति व्यक्तं भवतामेव तत्र तत्र जयवैजयन्ती । न च वचनमात्रेण तत्प्रतिक्षेपः सम्पद्यते । नापि वचनं परार्थानुमानादन्यत् प्रमाण भवितुमर्हति । भवद्भवनेऽवश्यतया लक्षणवाक्यानि परार्थानुमान२० रूपाण्यभ्युपेयान्यपरथा तदभिधानानर्थक्यप्रसक्तेः । अत एवोद्योतकर वाचस्पतिप्रभृतयः परेऽपि ' लक्षणवाक्यं केवलव्यतिरेक्यनुमानम्' इत्यामनन्ति । न चैवं व्युत्पत्तिकाल एवायं लक्षणप्रणयनं नामेत्येकान्तः कान्तो भवेत् । विप्रतिपत्तिपराकरणाय प्रयुक्तस्य लक्षणवाक्यस्य परार्था नुमानरूपत्वेन व्यवहारस्वरूपत्वात् । अन्यथा वहिविप्रतिपत्तिव्युदा२५ साय प्रयुक्तस्य धूमानुमानस्यापि व्युत्पत्तिकाललिङ्गितत्वप्रसङ्गात् । एवं १ ‘भवद्भवना' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy