________________
परि. १ सू. २] स्याद्वादरत्नाकरसहितः
२५ विधेयतासामर्थ्यायातं तत्पदपरामर्शयोग्यत्वमस्य निवर्तते । विहितस्य तु या लक्ष्यावबोधनाय व्यापारणा सान्याप्रसिद्धिर्यासौ लक्षणव्युत्पत्तिवाक्याल्लक्षणत्वनावगतौ सत्यां तदनुसन्धानरूपा तत्रास्य भवत्वनूद्यमानता । स ह्यस्य व्यवहारकाल इत्युक्तमेवैतत् । यः कुण्डली स देवदत्त इत्येवमादावपि यदा कुण्डलित्वं विधेयतया प्रक्रम्यते तदा ५ यस्तत्र देवदत्तस्तस्य कुण्डलित्वं लक्षणम् । योऽग्निस्तस्य धूमो लक्षणम्। अतो यः कुण्डली यत्र वा धूमो भवता दृश्यते तत्रं स देवदत्तस्तत्र वा बहिरिति भवता प्रतिपत्तव्यमित्ययमेव न्यायः । एवं यः परिव्राजकस्तस्य शिखा लिङ्गमित्ययं व्युत्पत्तिकालः । अत्र च परिव्राजकस्यैवानुवादः । व्यवहारकाले तु विपर्ययः । यतोऽस्य शिखा लिङ्गमतो यः शिखी स १० परित्राजकस्त्वया व्यवहर्त्तव्य इति । ततो यद्यप्येकधैवोच्यते तथाप्युक्तिसङ्केपमात्रमेतत् । व्युत्पत्तिव्यवहारकालापेक्षया तु विध्यनुवादविभागोऽत्र द्रष्टव्य इति ।
वृद्धसेवाप्रसिद्धोऽपि ब्रुवन्नेवं विशङ्कितः ॥
बालवत्स्यादुपालभ्यस्त्रै विद्यविदुषामयम् ॥ १८॥ तथाहि सोयं वृद्धधर्मोत्तरानुसार्य्यप्यलीकवाचालतया तुल्यस्वरूपयोरपि व्युत्पत्तिव्यवहारकालयोरतुल्यतामुपकल्पयन् बाल इवैकामप्यङ्गुलिं वेगवत्तया चलयन् द्वयीकृत्य दर्शयतीत्येवमुपालभ्यते त्रैविद्यकोविदैः । व्युत्पत्तिस्वरूपापरिहारेण हि व्यवहारोऽपि सम्पद्यते । न खलु नालिकेरद्वीपादायातः पुमान् वहिमानयानय नीरं क्षीरं चेत्या- २० द्युत्तमवृद्धनियोगात्तत्र तत्र प्रवर्तमान कञ्चनापि मध्यमवृद्धं पुमांस पश्यंस्तत्तत्पदावापोद्वापं च परिभावयन्नयं वह्निरयमस्य वाचक इत्येवं वर्तेः स्वरूपे प्रतिनियतवाचकवाच्यत्वे च व्युत्पत्तिं प्रतिपद्य तत्स्वरूपपरिहारेण व्यवहारमवतारयत्यपि । तर्हि लक्षणसिद्धये लक्ष्यस्यापि
१ 'तत्र' इति नास्ति प. पुस्तके । २ संपश्यं' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"