________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. २ पितार्थानुवादप्रतिपादनपरं हीदं वाक्यखण्डलकं न च पूर्ववाक्येन लक्ष्यलक्षणभावो व्यवस्थाप्यते त्वदास्थयेत्यसम्बद्धमिदं स्यात् । सम्बद्धत्वे वा पूर्वत्र तदुभयविधिः सिध्येत् । तथा च न तस्मिन् स्ववाविरोधः प्रतिरोधमधिवसति । लक्ष्यस्य लक्षणं तस्य भाव इति तु ५ व्याख्यानम् । प्रसिद्धार्थहान्यप्रसिद्धार्थपरिकल्पनलक्ष्यपदानर्थकत्वदोषकदर्थितमिति सहृदयोद्वेजकम् । अथात्र प्रसिद्धस्यार्थस्यासम्भवात् तद्धानिस्तद्विरुद्धपरिकल्पनं च गङ्गायां घोषः प्रतिवसतीत्यादाविवाविरुद्धमेवेति चेत् । मैवम् । लक्ष्यलक्षणयोरुभयोर्भावस्तदत्र प्रसिद्धोऽर्थस्तस्य च सम्भवः समर्थितः समर्थयिष्यते चेति ।
बलदेवबलं स्वीयं दर्शयन्न निदर्शनम् ।
वृद्धधर्मोत्तरस्यैव भावमत्र न्यरूपयत् ॥ १७ ॥ इहान्यो व्युत्पत्तिकालोऽन्यश्च व्यवहारकालः । तत्र व्यवहारकाले लक्षणस्य लक्ष्यसिद्धये व्यापारणेति भवतु तदा यत्पदपरामर्शनीयता व्युत्पन्नस्य सतः । यदा तु व्युत्पत्तिसमयस्तदा लक्षणमेव ज्ञाप्यमस्येदं लक्षणमिति यदेव च ज्ञाप्यं तदेवानूद्यते इति विरुद्धमेतत् । ज्ञाप्यं विधेयत्वादविज्ञातं सत्कथमनूद्यते । अत एवास्य लक्ष्यवत् भूतविभक्त्या निर्देशस्तदा न युज्यते । यद्यपि हि कदाचित् क्रियेत । यथा शिखया परिवाजकः कमण्डलुना छात्र इति । तत्रापि फलमुखेनैव लक्षणविधेराक्षेपो न तु लक्षणविधिरेव । तेन वाक्यान्तरार्थ एवोपप्लवते परिव्राजकस्य शिखा लिङ्गं छात्रस्य कमण्डलुरिति । अतस्तेन तस्य प्रतीतिसिद्धिरिति । तस्माल्लक्षणविधानावसरे तत्पदपरामर्श एवास्योचितः । यत्तूच्यते कथमप्रसिद्धस्य लक्षणत्वं भवति प्रसिद्ध वा कथं नानूयेतेति सेयमन्याऽप्रसिद्धिर्या लक्षणत्वविधानावसर उपयुज्यते। अन्या च प्रसिद्धि
र्या लक्ष्यावबोधनाय । शब्दार्थमात्रेण हि ज्ञातं सल्लक्षणत्वेन विधातुं २५ शक्यम् । अत्यन्ताप्रसिद्धस्य धर्मस्यालक्षणत्वात् नतु तया प्रसिद्धया
१ 'मनूयेत' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"