SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. २] स्याद्वादरत्नाकरसहितः ग्राह्ये विपर्यस्तस्यापि कल्पनापोढत्वं पश्यन्नवश्यमध्यवस्येत् प्रत्यक्षत्वं कश्चिदिति तत्प्रतिक्षपायाविपर्यस्तार्थप्रतिपादकमभ्रान्तपदमुपादेयमिति चेत् । हन्त बौद्धोऽपि नट इव केवलवाक्प्रपञ्चेन वञ्चयसि । गच्छवृक्षादिवेदनं हि तत्र तत्र मिथ्याज्ञानं मिथ्याज्ञानमिति सर्वत्रांशे विसंवादकमिति प्रपञ्चतः प्रतिपायेदानी ग्राह्ये विपर्यस्तमिति पर्याया- ५ न्तरं परिकल्प्याभ्रान्तपदेन व्यपोहसि नतु सम्यग्ज्ञानपदेनेति व्यक्तं ते वाग्व्यंसकत्वम् । अपि च भगवद्भवनसूत्रणासूत्रधारो धर्मकीर्तिरपि न्यायविनिश्चयस्याद्यद्वितीयतृतीयपरिच्छेदेषु यथाक्रमं 'प्रत्यक्ष कल्पना पोढमभ्रान्तम्' इति । ' तत्र स्वार्थ त्रिरूपाल्लिङ्गतोऽर्थकू' इति । 'परार्थमनुमानं तु स्वदृष्टार्थप्रकाशनम्' इति त्रीणि लक्षणानि 'तिमिराशुभ्रमणनौयानसझोभाधनाहितविभ्रममविकल्पकं ज्ञानं प्रत्यक्षम्' इति । 'त्रिलक्षणाल्लिङ्गाद्यदनुमेयेऽर्थे ज्ञानं तत्स्वार्थमनुमानम् ' इति । ' यथैव हि स्वयं त्रिरूपाल्लिङ्गतो लिङ्गिनि ज्ञानमुत्पन्नं तथैव परत्र लिङ्गिज्ञानोत्पिपादयिषया त्रिरूपलिङ्गाख्यानं परार्थमनुमानम्' इति च व्याचक्षाणो लक्ष्यस्यैव विधिमन्वकीर्तयत् । १५ तथा ' लक्ष्यलक्षणभावविधानवाक्ये' इत्युपक्रम्य ‘लक्षणमेव विधीयते' इत्यभिदधानः कथं न स्ववचनविरोधमवबुध्यसे । तथाहि कार्यकारणभाववदुमयाधारः सम्बन्धो लक्ष्यलक्षणभावस्तायत्तस्य च विधानमित्युक्ते लक्ष्यस्य लक्षणस्य च विधिः पर्यवस्यति । तथा च लक्षणमेव विधीयत इति दुर्निरोधो विरोधः । अथ परे परिकीर्त्तयन्ति लक्ष्य- २० लक्षणभावविधानमिति तदनुवादादयमदोष एवेति ब्रूषे साधो ‘सिद्ध तु लक्ष्यलक्षणभावे ' इत्यत्र कस्ते कुशलोपायः । पूर्ववाक्यव्यवस्था १ व्यंसकः- धूर्तः । २ अधुना धर्मकीर्तिकृतन्यायबिन्दौ एवमुपलभ्यते सूत्रव्याख्यानम् । तथा च-तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम् ( न्या. बि. परि. १ सू. ४), तत्र स्वार्थ त्रिरूपाल्लिङ्गाद्यदनुमेये ज्ञानं तदनुमानम् (न्या. बि. परि २ सू. ३) त्रिरूपलिङ्गाख्यानं परार्थानुमानम् (न्या. बि. परि, ३ स. १) अत्र विष्वपि लिङ्गेषु पाठभेदः। "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy